०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

दशमेऽनुवाके सप्त सूक्तानि । तत्र अभि त्यम्’ इति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रेतिहासमाचक्षते – अङ्गिरा इन्द्रसदृशं पुत्रमात्मनः कामयमानो देवता उपासांचक्रे । तस्य सव्याख्येन पुत्ररूपेणेन्द्र एव स्वयं जज्ञे जगति मत्तुल्यः कश्चिन्मा भूदिति । स सव्य आङ्गिरसोऽस्य सूक्तस्य ऋषिः । चतुर्दशीपञ्चदश्यौ त्रिष्टुभौ । ‘ त्रिष्टुबन्तस्य सूक्तस्य शिष्टा जगत्यः’ इति परिभाषयावशिष्टास्त्रयोदशर्चो जगत्यः । इन्द्रो देवता । तदेत्सर्वम् अनुक्रमण्यामुक्तम् -‘अभि त्यं पञ्चोना सव्यो द्वित्रिष्टुबन्तमङ्गिरा इन्द्रतुल्यं पुत्रमिच्छन्नभ्यध्यायत्सव्य इतीन्द्र एवास्य पुत्रोऽजायत’ इति । अतिरात्रे प्रथमे रात्रिपर्याये होतुः शस्त्रे इदं सूक्तं शंसनीयम् ।’ अतिरात्रे पर्यायाणाम् ’ इति खण्डे सूत्रितम्-’ अभि त्यं मेषमध्वर्यवो भरतेन्द्राय सोममिति याज्या ’ ( आश्व. श्रौ. ६. ४) इति । गवामयनस्य मध्यभूते विषुवत्संज्ञकेऽहन्यपि निष्केवल्ये इदं सूक्तं शंसनीयम् । तथा च सूत्रितं - यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं शस्त्वा ’ ( आश्व. श्रौ. ८. ६ ) इति ॥

Jamison Brereton

51
Indra
Savya Āṅgirasa
15 verses: jagatī, except triṣṭubh 14–15
This hymn consists primarily of an elaborated list of Indra’s great deeds, some well known (like the Vala myth in 3a, the Vr̥tra myth in 4, Indra’s involvement164 I.51
with Uśanā Kāvya and Kutsa in the slaying of Śuṣṇa in verses 6a, 10–11) and others quite obscure. For example, Vimada, mentioned in 3ab, is usually a client of the Aśvins, who supply him with a wife (often using the same verb [√vah “con vey”] as here: I.112.9, 116.1, 117.20; X.39.7, 65.12). Is the same deed attributed to Indra here and is the “good thing” that Indra brings him a reference to the wife? Similarly puzzling are the enemies who make oblation “on the shoulder” in verse 5 (perhaps indicating people following different ritual practices and not part of the Ārya community; see vss. 8–9), Indra’s role as an ant destroying walls in verse 9, and his transformation into the female consort of an otherwise unknown figure in verse 13c.
The catalogue of deeds is interrupted by demands that Indra use his same mar tial powers for our benefit (vss. 7–9ab), and it is framed by an exhortation to the poets to give praise to the god (vs. 1) and the announcement of the end of the praise hymn and the boons we seek from it (vss. 14–15).

Jamison Brereton Notes

Indra

01 अभि त्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥

02 अभीमवन्वन्त्स्वभिष्थिमूतयोंऽतरिक्षप्रां तविषीभिरावृतम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥

03 त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥

04 त्वमपामपिधानावृणोरपाधारयः पर्वते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥

05 त्वं मायाभिरप - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥

06 त्वं कुत्सम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥

07 त्वे विश्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥

08 वि जानीह्यार्यान्ये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥

09 अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥

10 तक्षद्यत्त उशना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥

11 मन्दिष्थ यदुशने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥

12 आ स्मा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥

13 अददा अर्भाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥

14 इन्द्रो अश्रायि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥

15 इदं नमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥