०५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उदु त्यम्’ इति त्रयोदशर्चं सप्तमं सूक्तं प्रस्कण्वस्यार्षं सूर्यदेवत्यम् । आदौ नव गायत्र्यः शिष्टाश्चतस्रोऽनुष्टुभ इत्युक्तम् । तथा चानुक्रान्तम् - उदु त्यं सप्तोना सौर्य नवाद्या गायत्र्यः’ इति। आश्विनशस्त्रे सौर्ये क्रतौ ‘ उदु त्यम्’ इत्यादयो नवर्चः शंसनीयाः । ‘ संस्थितेष्वाश्विनाय’ इति खण्डे सूत्रितं - सूर्यो नो दिव उदु त्यं जातवेदसमिति नव’ ( आश्व. श्रौ. ६. ५) इति ॥

Jamison Brereton

50
Sūrya (1-9), and a Spell against Disease (10–13)
Praskaṇva Kāṇva
13 verses: gāyatrī 1–9, anuṣṭubh 10–13
This final hymn of the Praskaṇva sequence falls into two parts. The last three verses (11–13) have a clear Atharvan cast, as a spell against disease, specifically jaundice. By sympathetic magic, the golden sun removes the jaundice from the afflicted man and displaces it onto other, presumably yellowish creatures—parrots and other birds.
The first nine verses, in a different meter, are a charmingly simple descrip tion of the rising of the Sun and the beginning of his journey across the sky. The affinity of the intermediate verse (10) is not clear. Though it matches the meter of the final three verses, in tone it seems more like a final verse summariz ing the happy result of the sunrise in verses 1–9. (It is not unusual for the final verse of a hymn to be in a different meter from the rest.) If this is the case, then the spell in verses 11–13 could have been tacked onto this hymn because of the phrase “higher heaven” (11b), which echoes “higher light” and “highest light” in verse 10.

Jamison Brereton Notes

Sūrya Although this is the last hymn in the Praskaṇva group (I.44-50), it does not belong directly with the preceding hymns, which are clearly grouped in pairs and belong to the Prātaranuvāka litany.

01 उदु त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓दु त्यं᳓ जात᳓वेदसं
देवं᳓ वहन्ति केत᳓वः+++(→रश्मयः)+++ ।
दृशे᳓ वि᳓श्वाय सू᳓र्यम् ॥

02 अप त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓प त्ये᳓ ताय᳓वो यथा
न᳓क्षत्रा यन्ति अक्तु᳓भिः
सू᳓राय विश्व᳓चक्षसे

03 अदृश्रमस्य केतवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दृश्रम् अस्य केत᳓वो
वि᳓ रश्म᳓यो ज᳓नाँ अ᳓नु
भ्रा᳓जन्तो अग्न᳓यो यथा

04 तरणिर्विश्वदर्शतो ज्योतिष्कृदसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तर᳓णिर् विश्व᳓-दर्श-तो
ज्योतिष्-कृ᳓द् असि सूर्य ।
वि᳓श्वम् आ᳓ भासि रोचन᳓म् ॥

05 प्रत्यङ्देवानां विशः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्य᳓ङ् देवा᳓नां᳐ वि᳓शः
प्रत्य᳓ङ्ङ् उ᳓द् एषि मा᳓नुषान्
प्रत्य᳓ङ् वि᳓श्वं सु᳓वर् दृशे᳓

06 येना पावक - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ना पवाक+ च᳓क्षसा
भुरण्य᳓न्तं ज᳓नाँ अ᳓नु
तुवं᳓ वरुण प᳓श्यसि

07 वि द्यामेषि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ द्या᳓म् एषि र᳓जस् पृथु᳓
अ᳓हा मि᳓मानो अक्तु᳓भिः
प᳓श्यञ् ज᳓न्मानि सूरिय

08 सप्त त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त᳓ त्वा हरि᳓तो र᳓थे
व᳓हन्ति देव सूर्य ।
शोचि᳓ष्-केशं विचक्षण ॥

09 अयुक्त सप्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓युक्त सप्त᳓ शुन्ध्यु᳓वः
सू᳓रो र᳓थस्य नप्ति᳓यः
ता᳓भिर् याति स्व᳓युक्तिभिः

10 उद्वयं तमसस्परि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् वयं᳓ त᳓मसस् प᳓रि
ज्यो᳓तिष् प᳓श्यन्त उ᳓त्तरम् ।
देवं᳓ देवत्रा᳓ सू᳓र्यम्
अ᳓गन्म ज्यो᳓तिर् उत्तम᳓म् +++(←“उत्तमशश्वत्तमौ सर्वत्र” इत्य् अन्तोदात्तः)+++ ॥

11 उद्यन्नद्य मित्रमह - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्य᳓न्न् अद्य᳓ मित्रमह
आरो᳓हन्न् उ᳓त्तरां दि᳓वम्
हृद्रोग᳓म् म᳓म सूरिय
हरिमा᳓णं च नाशय

12 शुकेषु मे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु᳓केषु मे हरिमा᳓णं
रोपणा᳓कासु दध्मसि
अ᳓थो हारिद्रवे᳓षु मे
हरिमा᳓णं नि᳓ दध्मसि

13 उदगादयमादित्यो विश्वेन - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अगाद् अय᳓म् आदित्यो᳓
वि᳓श्वेन स᳓हसा सह᳓
द्विष᳓न्तम् म᳓ह्य° रन्ध᳓यन्
मो᳓ अहं᳓ द्विषते᳓ रधम्