०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वमग्ने वसून्’ इति दशर्चं द्वितीयं सूक्तम् । अत्रानुक्रमणिका-’ त्वमग्ने दशानुष्टुभमर्धचोऽन्त्यो दैवः’ इति । प्रस्कण्व ऋषिः। आनुष्टुभं छन्दः । इदं सूक्तमग्निदेवताकं, पूर्वत्र ‘आग्नेयं तु ‘इत्युक्तत्वात्। ‘ अयं सोमः’ इत्यर्धर्चो देवदेवत्यः। प्रातरनुवाके आग्नेये क्रतौ आश्विनशस्त्रे चैतत्सूक्तम् । अथैतस्या रात्रेः’ इति खण्डे सूत्रितं - त्वमग्ने वसूंस्त्वं हि क्षैतवत् ’ ( आश्व. श्रौ. ४. १३) इति । तथा गर्गत्रिरात्रस्यन्त्येऽहनि एतत्सूक्तमाज्यशस्त्रम् । ‘ आङ्गिरसं स्वर्गकामः’ इति खण्डे सूत्रितं - ’ वारवन्तीयमुत्तमे त्वमग्ने वसूँरिति चाज्यम् ’ ( आश्व. श्रौ. १०. २ ) इति ॥

Jamison Brereton

45
Agni (except Gods 10cd)
Praskaṇva Kāṇva
10 verses: anuṣṭubh
Like the immediately preceding hymn, this one celebrates Agni as the conveyor of the gods appropriate to the early-morning sacrifice. Unlike the last hymn, however, these gods are not individually enumerated; instead generic names for groups of gods are given in the first half of the first verse, and in the last two verses (9–10) they are summed up in the phrase “the divine folk.” The emphasis is rather on the world of men. In verse 3 the poet mentions a number of prior singers as models for his own interaction with Agni, and he groups himself with his kinsmen the Priyamedhas (vs. 4) and Kaṇvas (vs. 5), as well as unnamed poets and invokers in verses 6–8. Thus, while the two pairs of outer verses (1–2, 9–10) concern Agni’s delivery of the gods to the sacrifice, the middle verses (3–8) are occupied with the sacrificers’ desire for Agni to listen to their hymns and pleas.

Jamison Brereton Notes

Agni The theme of “hearing,” found also in the last two verses of I.44, is further explored here, with its complement, the “call” that the gods should hear.

44-49 ...{Loading}...

Jamison Brereton Notes

For illuminating remarks on the rhetorical and grammatical connections among these hymns, see Jesse Lundquist 2014 (25th UCLA IE Conf., Proceedings).

01 त्वमग्ने वसूँरिह - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् अग्ने व᳓सूँर् इह᳓
रुद्राँ᳓ आदित्याँ᳓ उत᳓ ।
य᳓जा स्वध्वरं᳓ ज᳓नं
म᳓नु-जातं घृत-प्रु᳓षम्+++(←स्नेहनसेचनपूरणेषु)+++ ॥

02 श्रुष्थीवानो हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुष्टी+++(←श्रु)+++-वा᳓नो+++(←वन् सम्भक्तौ)+++ हि᳓ +++(हविर्-)+++दाशु᳓षे
देवा᳓ अग्ने वि᳓चेतसः ।
ता᳓न् रोहिद्-अश्व! गिर्वणस्
त्र᳓यस्-त्रिंशतम् आ᳓ वह ॥

03 प्रियमेधवदत्रिवज्जातवेदो विरूपवत् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रियमेधव᳓द् अत्रिव᳓ज्
जा᳓तवेदो विरूपव᳓त्
अङ्गिरस्व᳓न् महिव्रत
प्र᳓स्कण्वस्य श्रुधी ह᳓वम्

04 महिकेरव ऊतये - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓हिकेरव ऊत᳓ये
प्रिय᳓मेधा अहूषत
रा᳓जन्तम् अध्वरा᳓णा᳐म्
अग्निं᳓ शुक्रे᳓ण शोचि᳓षा

05 घृताहवन सन्त्येमा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

घृ᳓ताहवन सन्तिय
इमा᳓ उ षु᳓ श्रुधी गि᳓रः
या᳓भिः क᳓ण्वस्य सून᳓वो
ह᳓वन्ते अ᳓वसे तुवा

06 त्वां चित्रश्रवस्तम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ चित्रश्रवस्तम
ह᳓वन्ते विक्षु᳓ जन्त᳓वः
शोचि᳓ष्केशम् पुरुप्रिय
अ᳓ग्ने हव्या᳓य वो᳓ळ्हवे

07 नि त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ त्वा हो᳓तारम् ऋत्वि᳓जं
दधिरे᳓ वसुवि᳓त्तमम्
श्रु᳓त्कर्णं सप्र᳓थस्तमं
वि᳓प्रा अग्ने दि᳓विष्टिषु

08 आ त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा वि᳓प्रा अचुच्यवुः
सुत᳓सोमा अभि᳓ प्र᳓यः
बृह᳓द् भा᳓ बि᳓भ्रतो हवि᳓र्
अ᳓ग्ने म᳓र्ताय दाशु᳓षे

09 प्रातर्याव्णः सहस्कृत - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातर्या᳓व्णः सहस्कृत
सोमपे᳓याय सन्तिय
इहा᳓द्य᳓ दइ᳓वियं ज᳓नम्
बर्हि᳓र् आ᳓ सादया वसो

10 अर्वाञ्चं दैव्यम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वा᳓ञ्चं दइ᳓वियं ज᳓नम्
अ᳓ग्ने य᳓क्ष्व स᳓हूतिभिः
अयं᳓ सो᳓मः सुदानवस्
त᳓म् पात तिरो᳓अह्नियम्