०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

नवमेऽनुवाके सप्त सूक्तानि । तत्र ‘ अग्ने विवस्वत्’ इति चतुर्दशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका- अग्ने षळूना प्रस्कण्वः काण्व आग्नेयं तु प्रागाथमाद्यो द्वृचोऽश्व्युषसां च ’ इति । कण्वपुत्रः प्रस्कण्व ऋषिः । अत्र द्वितीयाचतुर्थ्याद्या युजः सतोबृहत्यः । प्रथमातृतीयाद्या अयुजो बृहत्यः ।। कृत्स्नं सूक्तमाग्नेयमुत्तरं च । आद्ये द्वे अश्विदेवताके उषोदेवताके च । प्रातरनुवाके आग्नेये क्रतौ बार्हते छन्दश्याश्विनशस्त्रे चेदं सूक्तम् । अथैतस्या रात्रेः’ इति खण्डे सूत्रितम्- अग्ने विवस्वत्सखायस्त्वा’ ( आश्व. श्रौ. ४. १३ ) इति । वाजपेये आग्निमारुते आद्यः प्रगाथोऽनुरूपः । ‘ वाजपेयेन ’ इति खण्डे सूत्रितं- चित्रवतीषु चेत् स्तुवीरंस्त्वं नश्चित्र ऊत्याग्ने विवस्वदुषस इत्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ९. ९) इति । पर्यायव्युष्टौ आश्विनशस्त्रस्यायमेव प्रगाथः स्तोत्रियः । ‘ यदि पर्यायानभिव्युच्छेत् ’ इति खण्डे ‘आश्विनायकस्तोत्रियोऽग्ने विवस्वदुषसः’ ( आश्व. श्रौ, ६. ६ ) इति सूत्रितम् ॥

Jamison Brereton

44
Agni, Aśvins, Dawn (1–2), Agni (3–14)
Praskaṇva Kāṇva
14 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
As indicated in the introduction to the Praskaṇva collection, this hymn to Agni praises him in his connection to the rituals of the early morning, especially in his role as conveyor of the other gods who attend this sacrifice. In its fourteen verses this hymn seldom departs from this simple message. The language is measured and dignified, but not difficult or poetically contorted.

Jamison Brereton Notes

Agni

44-49 ...{Loading}...

Jamison Brereton Notes

For illuminating remarks on the rhetorical and grammatical connections among these hymns, see Jesse Lundquist 2014 (25th UCLA IE Conf., Proceedings).

01 अग्ने विवस्वदुषसश्चित्रम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने वि᳓वस्वद् उष᳓सश्
चित्रं᳓ रा᳓धो अमर्तिय
आ᳓ दाशु᳓षे जातवेदो वहा तुव᳓म्
अद्या᳓ देवाँ᳓ उषर्बु᳓धः

02 जुष्थो हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

जु᳓ष्टो हि᳓ दूतो᳓ अ᳓सि हव्यवा᳓हनो
अ᳓ग्ने रथी᳓र् अध्वरा᳓णाम्
सजू᳓र् अश्वि᳓भ्याम् उष᳓सा सुवी᳓रियम्
अस्मे᳓ धेहि श्र᳓वो बृह᳓त्

03 अद्या दूतम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अद्या᳓ दूतं᳓ वृणीमहे
व᳓सुम् अग्नि᳓म् पुरुप्रिय᳓म्
धूम᳓केतुम् भा᳓ऋजीकं वि᳓उष्टिषु
यज्ञा᳓नाम् अध्वरश्रि᳓यम्

04 श्रेष्टं यविष्टमतिथिम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

श्रे᳓ष्ठं य᳓विष्ठम् अ᳓तिथिं सु᳓आहुतं
जु᳓ष्टं ज᳓नाय दाशु᳓षे
देवाँ᳓ अ᳓छा या᳓तवे जात᳓वेदसम्
अग्नि᳓म् ईळे वि᳓उष्टिषु

05 स्तविष्यामि त्वामहम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स्तविष्या᳓मि तुवा᳓म् अहं᳓
वि᳓श्वस्यामृत भोजन
अ᳓ग्ने त्राता᳓रम् अमृ᳓तम् मियेधिय
य᳓जिष्ठं हव्यवाहन

06 सुशंसो बोधि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सुशं᳓सो बोधि गृणते᳓ यविष्ठिय
म᳓धुजिह्वः सु᳓आहुतः
प्र᳓स्कण्वस्य प्रतिर᳓न्न् आ᳓यु° जीव᳓से
नमस्या᳓ दइ᳓वियं ज᳓नम्

07 होतारं विश्ववेदसम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

हो᳓तारं विश्व᳓वेदसं
सं᳓ हि᳓ त्वा वि᳓श इन्ध᳓ते
स᳓ आ᳓ वह पुरुहूत प्र᳓चेतसो
अ᳓ग्ने देवाँ᳓ इह᳓ द्रव᳓त्

08 सवितारमुषसमश्विना भगमग्निम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सविता᳓रम् उष᳓सम् अश्वि᳓ना भ᳓गम्
अग्निं᳓ वि᳓उष्टिषु क्ष᳓पः
क᳓ण्वासस् त्वा सुत᳓सोमास इन्धते
हव्यवा᳓हं सुअध्वर

09 पतिर्ह्यध्वराणामग्ने दूतो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓तिर् हि᳓ अध्वरा᳓णा᳐म्
अ᳓ग्ने दूतो᳓ विशा᳓म् अ᳓सि
उषर्बु᳓ध आ᳓ वह सो᳓मपीतये
देवाँ᳓ अद्य᳓ सुवर्दृ᳓शः

10 अग्ने पूर्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने पू᳓र्वा अ᳓नूष᳓सो विभावसो
दीदे᳓थ विश्व᳓दर्शतः
अ᳓सि ग्रा᳓मेषु अविता᳓ पुरो᳓हितो
अ᳓सि यज्ञे᳓षु मा᳓नुषः

11 नि त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ त्वा यज्ञ᳓स्य सा᳓धनम्
अ᳓ग्ने हो᳓तारम् ऋत्वि᳓जम्
मनुष्व᳓द् देव धीमहि प्र᳓चेतसं
जीरं᳓ दूत᳓म् अ᳓मर्तियम्

12 यद्देवानां मित्रमहः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् देवा᳓नाम् मित्रमहः पुरो᳓हितो
अ᳓न्तरो या᳓सि दूति᳓यम्
सि᳓न्धोर् इव प्र᳓स्वनितास ऊर्म᳓यो
अग्ने᳓र् भ्राजन्ते अर्च᳓यः

13 श्रुधि श्रुत्कर्ण - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुधि᳓ श्रुत्कर्ण व᳓ह्निभिर्
देवइ᳓र् अग्ने सया᳓वभिः
आ᳓ सीदन्तु बर्हि᳓षि मित्रो᳓ अर्यमा᳓
प्रातर्या᳓वाणो अध्वर᳓म्

14 शृण्वन्तु स्तोमम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शृण्व᳓न्तु स्तो᳓मम् मरु᳓तः सुदा᳓नवो
अग्निजिह्वा᳓ ऋतावृ᳓धः
पि᳓बतु सो᳓मं व᳓रुणो धृत᳓व्रतो
अश्वि᳓भ्याम् उष᳓सा सजूः᳓