०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘क्रीळ वः’ इति द्वितीयं सूक्तं पञ्चदशर्चम् । अत्रेयमनुक्रमणिका - क्रीळं पञ्चोना मारुतं हि गायत्रं तु ’ इति । ऋषिश्चान्यस्मादृषेरवाविशिष्टः’ इति परिभाषया घोरपुत्रः कण्व ऋषिः । इदमुत्तरं च गायत्रीच्छन्दस्के । इदमादिसूक्तत्रयं मरुद्देवताकं तुहिहवेति परिभाषितत्वात् । व्यूळ्हे द्वितीये छन्दोमे आग्निमारुतशस्त्रे एतत्सूक्तं निविद्धानीयम् । द्वितीयस्याग्निं वो देवम्’ इति खण्डे सूत्रितं – क्रीळं वः शर्धाऽग्ने मृळेत्याग्निमारुतम् ’ ( आश्व. श्रौ. ८. १० ) इति । ब्राह्मणं च – क्रीळ वः शर्धो मारुतम्’ (ऐ.ब्रा. ५. १९) इति। ‘मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालम्’ इत्यस्यामिष्टौ ‘क्रीलं वः’ इत्येषा प्रधानस्यानुवाक्या। ‘ तथा ततः’ इति खण्डे सूत्रितं - क्रीळं वः शर्धो मारुतमत्यासो न ये मरुतः स्वञ्चः ’ ( आश्व. श्रौ. २. १८) इति ॥

Jamison Brereton

37
Maruts
Kaṇva Ghaura
15 verses: gāyatrī, probably organized in tr̥cas
Typical Marut themes fill this hymn: their glittering beauty (lightning), their noise (thunder), and their boisterous character, which strikes fear in both animate and inanimate nature. The mystery of their birth, also a common feature of Marut hymns, is mentioned glancingly in verse 9. The language is uncomplex, but as in many Marut hymns it is energetic and visual, and it often has a conversational tone, as in the depiction of thunder in verse 13 as the Maruts talking among themselves as they travel.

Jamison Brereton Notes

Maruts

01 क्रीळं वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।
कण्वा॑ अ॒भि प्र गा॑यत ॥

02 ये पृषतीभिऋड़्ष्थिभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये पृष॑तीभिरृ॒ष्टिभिः॑ सा॒कं वाशी॑भिर॒ञ्जिभिः॑ ।
अजा॑यन्त॒ स्वभा॑नवः ॥

03 इहेव शृण्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् ।
नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥

04 प्र वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वः॒ शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।
दे॒वत्तं॒ ब्रह्म॑ गायत ॥

05 प्र शंसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् ।
जम्भे॒ रस॑स्य वावृधे ॥

06 को वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
यत्सी॒मन्तं॒ न धू॑नु॒थ ॥

07 नि वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ ।
जिही॑त॒ पर्व॑तो गि॒रिः ॥

08 येषामज्मेषु पृथिवी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पतिः॑ ।
भि॒या यामे॑षु॒ रेज॑ते ॥

09 स्थिरं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।
यत्सी॒मनु॑ द्वि॒ता शवः॑ ॥

10 उदु त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒ अज्मे॑ष्वत्नत ।
वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥

11 त्यं चिद्घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् ।
प्र च्या॑वयन्ति॒ याम॑भिः ॥

12 मरुतो यद्ध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।
गि॒रीँर॑चुच्यवीतन ॥

13 यद्ध यान्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।
शृ॒णोति॒ कश्चि॑देषाम् ॥

14 प्र यात - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र या॑त॒ शीभ॑मा॒शुभिः॒ सन्ति॒ कण्वे॑षु वो॒ दुवः॑ ।
तत्रो॒ षु मा॑दयाध्वै ॥

15 अस्ति हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्ति॒ हि ष्मा॒ मदा॑य वः॒ स्मसि॑ ष्मा व॒यमे॑षाम् ।
विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥