०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘क्रीळ वः’ इति द्वितीयं सूक्तं पञ्चदशर्चम् । अत्रेयमनुक्रमणिका - क्रीळं पञ्चोना मारुतं हि गायत्रं तु ’ इति । ऋषिश्चान्यस्मादृषेरवाविशिष्टः’ इति परिभाषया घोरपुत्रः कण्व ऋषिः । इदमुत्तरं च गायत्रीच्छन्दस्के । इदमादिसूक्तत्रयं मरुद्देवताकं तुहिहवेति परिभाषितत्वात् । व्यूळ्हे द्वितीये छन्दोमे आग्निमारुतशस्त्रे एतत्सूक्तं निविद्धानीयम् । द्वितीयस्याग्निं वो देवम्’ इति खण्डे सूत्रितं – क्रीळं वः शर्धाऽग्ने मृळेत्याग्निमारुतम् ’ ( आश्व. श्रौ. ८. १० ) इति । ब्राह्मणं च – क्रीळ वः शर्धो मारुतम्’ (ऐ.ब्रा. ५. १९) इति। ‘मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालम्’ इत्यस्यामिष्टौ ‘क्रीलं वः’ इत्येषा प्रधानस्यानुवाक्या। ‘ तथा ततः’ इति खण्डे सूत्रितं - क्रीळं वः शर्धो मारुतमत्यासो न ये मरुतः स्वञ्चः ’ ( आश्व. श्रौ. २. १८) इति ॥

Jamison Brereton

37
Maruts
Kaṇva Ghaura
15 verses: gāyatrī, probably organized in tr̥cas
Typical Marut themes fill this hymn: their glittering beauty (lightning), their noise (thunder), and their boisterous character, which strikes fear in both animate and inanimate nature. The mystery of their birth, also a common feature of Marut hymns, is mentioned glancingly in verse 9. The language is uncomplex, but as in many Marut hymns it is energetic and visual, and it often has a conversational tone, as in the depiction of thunder in verse 13 as the Maruts talking among themselves as they travel.

Jamison Brereton Notes

Maruts

01 क्रीळं वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्रीळं᳓ वः श᳓र्धो मा᳓रुतम्
अनर्वा᳓णं रथेशु᳓भम्
क᳓ण्वा अभि᳓ प्र᳓ गायत

02 ये पृषतीभिऋड़्ष्थिभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ पृ᳓षतीभिर् ऋष्टि᳓भिः
साकं᳓ वा᳓शीभिर् अञ्जि᳓भिः
अ᳓जायन्त स्व᳓भानवः

03 इहेव शृण्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इहे᳓व शृण्व एषां᳐
क᳓शा ह᳓स्तेषु य᳓द् व᳓दान्
नि᳓ या᳓मञ् चित्र᳓म् ऋञ्जते

04 प्र वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वः श᳓र्धाय घृ᳓ष्वये
त्वेष᳓द्युम्नाय शुष्मि᳓णे
देव᳓त्तम् ब्र᳓ह्म गायत

05 प्र शंसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ शंसा गो᳓षु अ᳓घ्नियं
क्रीळं᳓ य᳓च् छ᳓र्धो मा᳓रुतम्
ज᳓म्भे र᳓सस्य वावृधे

06 को वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ वो व᳓र्षिष्ठ आ᳓ नरो
दिव᳓श् च ग्म᳓श् च धूतयः
य᳓त् सीम् अ᳓न्तं न᳓ धूनुथ᳓

07 नि वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ वो या᳓माय मा᳓नुषो
दध्र᳓ उग्रा᳓य मन्य᳓वे
जि᳓हीत प᳓र्वतो गिरिः᳓

08 येषामज्मेषु पृथिवी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓षाम् अ᳓ज्मेषु पृथिवी᳓
जुजुर्वाँ᳓ इव विश्प᳓तिः
भिया᳓ या᳓मेषु रे᳓जते

09 स्थिरं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्थिरं᳓ हि᳓ जा᳓नम् एषां᳐
व᳓यो मातु᳓र् नि᳓रेतवे
य᳓त् सीम् अ᳓नु द्विता᳓ श᳓वः

10 उदु त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ त्ये᳓ सून᳓वो गि᳓रः
का᳓ष्ठा अ᳓ज्मेषु अत्नत
वाश्रा᳓ अभिज्ञु᳓ या᳓तवे

11 त्यं चिद्घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तियं᳓ चिद् घा दीर्घ᳓म् पृथु᳓म्
मिहो᳓ न᳓पातम् अ᳓मृध्रम्
प्र᳓ च्यावयन्ति या᳓मभिः

12 मरुतो यद्ध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓रुतो य᳓द् ध वो ब᳓लं
ज᳓नाँ अचुच्यवीतन
गिरीँ᳓र् अचुच्यवीतन

13 यद्ध यान्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् ध या᳐᳓न्ति मरु᳓तः
सं᳓ ह ब्रुवते अ᳓ध्वन् आ᳓
शृणो᳓ति क᳓श् चिद् एषा᳐म्

14 प्र यात - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ यात शी᳓भम् आशु᳓भिः
स᳓न्ति क᳓ण्वेषु वो दु᳓वः
त᳓त्रो षु᳓ मादयाधुवै

15 अस्ति हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्ति हि᳓ ष्मा म᳓दाय वः
स्म᳓सि ष्मा वय᳓म् एषा᳐म्
वि᳓श्वं चिद् आ᳓यु° जीव᳓से