०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अष्टमेऽनुवाकेऽष्टौ सूक्तानि । तत्र ‘ प्र वो यह्वम्’ इति विंशत्यृचं प्रथमं सूक्तम् । घोरपुत्रः कण्व ऋषिः । अयुजो बृहत्यः तृतीयपादस्य द्वादशाक्षरत्वात् । युजः सतोबृहत्यः प्रथमतृतीययोः पादयोर्द्वादशाक्षरत्वात् । अग्निर्देवता । ऊर्ध्व ऊ षु’ इत्यादिके यूपदेवत्ये। तथा चानुक्रान्तं–प्र वो विंशतिः कण्वो घौर आग्नेयं प्रागाथमूर्ध्वं ऊ षु यौप्यौ ’ इति । ननु • ऊर्ध्व ऊ षु’ इत्यादिकयोरप्यग्नेर्देवतात्वेन भवितव्यमाग्नेये क्रतौ अनयोरनुद्धारात् । तथा हि सूत्रे ‘ एना वो अग्निं प्र वो यह्वम् ’ ( आश्व. श्रौ. ४. १३ ) इति प्रतीकमात्रस्यैवोपादानात् कृत्स्नसूक्तमाग्नेयमिति गम्यते । यद्येते अन्यदेवत्ये स्यातां ‘ वसिष्वा हीति सूक्तयोरुत्तमामुद्धरेत् ’ ( आश्व. श्रौ. ४. १३ ) इतिवत् उद्धारं ब्रूयात् । न च ब्रूते । अतः कथं योप्याविति । नैष दोषः । यूपाधिष्ठानस्याग्नेः स्तूयमानत्वात् अनयोरपि अग्निर्देवता इत्याग्नेये क्रतौ उद्धारो न कृतः । अधिष्ठानप्राधान्यविवक्षया यौप्यावित्येतदपि न विरुध्यते । प्रातरनुवाके आग्नेये क्रतौ बार्हते छन्दसि ‘प्र वो यह्वम्’ इति सूक्तम् । अथैतस्या रात्रेर्विवासकाले ’ इति खण्डे सूत्रितम्’ एना वो अग्निं प्र वो यह्वम् ’ इति ॥

Jamison Brereton

36
Agni
Kaṇva Ghaura
20 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
Long but relatively straightforward, this hymn first celebrates the communal fire belonging to a number of clans, as Proferes argues (2007: 31), uniting them in com mon action (vss. 1–3). The poet then cites a divine precedent for joint kindling of the fire (vs. 4) and assigns Agni various social roles: priest, householder, and mes senger (vs. 5), an almost trifunctional structure. Verses 7–8 conflate mortals and gods in their expansion of territory and defeat of opposing forces, and the next series of verses also mingle legendary and current mortals in their relation to Agni.
The mood of the hymn changes with verse 13. There follow a number of peremp tory commands to Agni, for help and, especially, protection from and destruction of enemies, interspersed with mentions of help that Agni offered to previous mor tal clients. The more militant verses are reminiscent of X.87, dedicated to Agni Rakṣohan (“Demon-Smiter”), although the latter hymn is more inventive than this one.

Jamison Brereton Notes

Agni

01 प्र वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो यह्व᳓म् पुरूणां᳐᳓
विशां᳓ देवयती᳓ना᳐म्
अग्निं᳓ सुउक्ते᳓भिर् व᳓चोभिर् ईमहे
यं᳓ सीम् इ᳓द् अन्य᳓ ई᳓ळते

02 जनासो अग्निम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ज᳓नासो अग्निं᳓ दधिरे सहोवृ᳓धं
हवि᳓ष्मन्तो विधेम ते
स᳓ त्वं᳓ नो अद्य᳓ सुम᳓ना इहा᳓विता᳓
भ᳓वा वा᳓जेषु सन्तिय

03 प्र त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ त्वा दूतं᳓ वृणीमहे
हो᳓तारं विश्व᳓वेदसम्
मह᳓स् ते सतो᳓ वि᳓ चरन्ति अर्च᳓यो
दिवि᳓ स्पृशन्ति भान᳓वः

04 देवासस्त्वा वरुणो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓सस् त्वा व᳓रुणो मित्रो᳓ अर्यमा᳓
सं᳓ दूत᳓म् प्रत्न᳓म् इन्धते
वि᳓श्वं सो᳓ अग्ने जयति त्व᳓या ध᳓नं
य᳓स् ते ददा᳓श म᳓र्तियः

05 मन्द्रो होता - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मन्द्रो᳓ हो᳓ता गृह᳓पतिर्
अ᳓ग्ने दूतो᳓ विशा᳓म् असि
तुवे᳓ वि᳓श्वा सं᳓गतानि व्रता᳓ ध्रुवा᳓
या᳓नि देवा᳓ अ᳓कृण्वत

06 त्वे इदग्ने - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवे᳓ इ᳓द् अग्ने सुभ᳓गे यविष्ठिय
वि᳓श्वम् आ᳓ हूयते हविः᳓
स᳓ त्वं᳓ नो अद्य᳓ सुम᳓ना उता᳓परं᳓
य᳓क्षि देवा᳓न् सुवी᳓रिया

07 तं घेमित्था - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ घेम् इत्था᳓ नमस्वि᳓न
उ᳓प स्वरा᳓जम् आसते
हो᳓त्राभिर् अग्नि᳓म् म᳓नुषः स᳓म् इन्धते
तितिर्वां᳓सो अ᳓ति स्रि᳓धः

08 घ्नन्तो वृत्रमतरन्रोदसी - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

घ्न᳓न्तो वृत्र᳓म् अतरन् रो᳓दसी अप᳓
उरु᳓ क्ष᳓याय चक्रिरे
भु᳓वत् क᳓ण्वे वृ᳓षा दियुम्नी᳓ आ᳓हुतः
क्र᳓न्दद् अ᳓श्वो ग᳓विष्टिषु

09 सं सीदस्व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ सीदस्व महाँ᳓ असि
शो᳓चस्व देववी᳓तमः
वि᳓ धूम᳓म् अग्ने अरुष᳓म् मियेधिय
सृज᳓ प्रशस्त दर्शत᳓म्

10 यं त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ त्वा देवा᳓सो म᳓नवे दधु᳓र् इह᳓
य᳓जिष्ठं हव्यवाहन
यं᳓ क᳓ण्वो मे᳓धियातिथिर् धनस्पृ᳓तं
यं᳓ वृ᳓षा य᳓म् उपस्तुतः᳓

11 यमग्निं मेध्यातिथिः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् अग्नि᳓म् मे᳓धियातिथिः
क᳓ण्व ईध᳓ ऋता᳓द् अ᳓धि
त᳓स्य प्रे᳓षो दीदियुस् त᳓म् इमा᳓ ऋ᳓चस्
त᳓म् अग्निं᳓ वर्धयामसि

12 रायस्पूर्धि स्वधावोऽस्ति - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

राय᳓स् पूर्धि स्वधावो᳓ अ᳓स्ति हि᳓ ते᳓
अ᳓ग्ने देवे᳓षु आ᳓पियम्
तुवं᳓ वा᳓जस्य श्रु᳓तियस्य राजसि
स᳓ नो मॄळ+ महाँ᳓ असि

13 ऊर्ध्व ऊ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्व᳓ ऊ षु᳓ ण ऊत᳓ये
ति᳓ष्ठा देवो᳓ न᳓ सविता᳓
ऊर्ध्वो᳓ वा᳓जस्य स᳓निता य᳓द् अञ्जि᳓भिर्
वाघ᳓द्भिर् विह्व᳓यामहे

14 ऊर्ध्वो नः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वो᳓ नः पाहि अं᳓हसो नि᳓ केतु᳓ना
वि᳓श्वं स᳓म् अत्रि᳓णं दह
कृधी᳓ न ऊर्ध्वा᳓ञ् चर᳓थाय जीव᳓से
विदा᳓ देवे᳓षु नो दु᳓वः

15 पाहि नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पाहि᳓ नो अग्ने रक्ष᳓सः
पाहि᳓ धूर्ते᳓र् अ᳓रावणः
पाहि᳓ री᳓षत उत᳓ वा जि᳓घांसतो
बृ᳓हद्भानो य᳓विष्ठिय

16 घनेव विष्वग्वि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

घने᳓व वि᳓ष्वग् वि᳓ जहि अ᳓रावणस्
त᳓पुर्जम्भ यो᳓ अस्मध्रु᳓क्
यो᳓ म᳓र्तियः शि᳓शीते अ᳓ति अक्तु᳓भिर्
मा᳓ नः स᳓ रिपु᳓र् ईशत

17 अग्निर्वव्ने सुवीर्यमग्निः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् वव्ने सुवी᳓रियम्
अग्निः᳓ क᳓ण्वाय सउ᳓भगम्
अग्निः᳓ प्रा᳓वन् मित्रो᳓त᳓ मे᳓धियातिथिम्
अग्निः᳓ साता᳓ उपस्तुत᳓म्

18 अग्निना तुर्वशम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓ना तुर्व᳓शं य᳓दुम् पराव᳓त
उग्रा᳓देवं हवामहे
अग्नि᳓र् नयन् न᳓ववास्त्वम् बृह᳓द्रथं
तुर्वी᳓तिं द᳓स्यवे स᳓हः

19 नि त्वामग्ने - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ त्वा᳓म् अग्ने म᳓नुर् दधे
ज्यो᳓तिर् ज᳓नाय श᳓श्वते
दीदे᳓थ क᳓ण्व ऋत᳓जात उक्षितो᳓
यं᳓ नमस्य᳓न्ति कृष्ट᳓यः

20 त्वेषासो अग्नेरमवन्तो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वेषा᳓सो अग्ने᳓र् अ᳓मवन्तो अर्च᳓यो
भीमा᳓सो न᳓ प्र᳓तीतये
रक्षस्वि᳓नः स᳓दम् इ᳓द् यातुमा᳓वतो
वि᳓श्वं स᳓म् अत्रि᳓णं दह