०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ह्वयाम्यग्निम् ’ इत्येकादशर्चं पञ्चमं सूक्तम् । हिरण्यस्तूप ऋषिः । आद्या नवमी च जगतीच्छन्दस्के। शिष्टास्त्रिष्टुभः । कृत्स्नस्य सूक्तस्य सविता देवता । आद्यायाः ‘ह्वयाम्यग्निम्’ इत्यस्या अग्निमित्रावरुणरात्रिसवित्राख्या लिङ्गोक्तदेवताः । तथा चानुक्रान्तं- ह्वयाम्येकादश सावित्रं नवमी जगत्याद्या च लिङ्गोक्तदैवतपादास्त्रयः’ इति । अभिप्लवषडहस्य चतुर्थेऽहनि वैश्वदेवशस्त्रे इदं सूक्तं सावित्रं निविद्धानम् । ‘तृतीयस्य त्र्यर्यमा’ इति खण्डे सूत्रितं - ‘ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रः ’ (आश्व. श्रौ. ७. ७ ) इति ॥

Jamison Brereton

35
Savitar (except Agni, Mitra and Varuṇa, Rātrī, and Savitar 1)
Hiraṇyastūpa Āṅgirasa
11 verses: triṣṭubh, except jagatī 1, 9
After an initial verse invoking several gods, Savitar becomes the sole focus of the hymn—Savitar primarily in his role as god of the evening, as was already suggested by the invocation of Night in verse 1c. The first part of the Savitar portion (vss. 2–5) describes the beauty of Savitar’s chariot and his journey through the night sky. During this journey he (and his horses, vss. 2 and 5; see also 7–8) survey the crea tures and the larger cosmos in which they live, and in the second part of the hymn (vss. 6–9) we learn what was seen. These verses enumerate the parts of the cosmos and sketch its dimensions. This section is presented as mystical instruction (see esp. vs. 6d), which raises cosmic questions (vs. 7cd), especially about what happens to the sun during the night that Savitar is presiding over. The anxieties raised by the absence of the sun are put to rest by Savitar’s ability to pervade the whole realm (vs. 9), and the hymn ends with an invitation to the god to come to us along his well
maintained route through the midspace (vss. 10–11).

Jamison Brereton Notes

Savitar

01 ह्वयाम्यग्निं प्रथमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥

02 आ कृष्णेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥

03 याति देवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥

04 अभीवृतं कृशनैर्विश्वरूपम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥

05 वि जनाञ्छ्यावाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥

06 तिस्रो द्यावः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥

07 वि सुपर्णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥

08 अष्थौ व्यख्यत्ककुभः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥

09 हिरण्यपाणिः सविता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥

10 हिरण्यहस्तो असुरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥

11 ये ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥