०३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्रिश्चिन्नो अद्य’ इति चतुर्थं सूक्तं द्वादशर्चम्। ‘ऋषिश्चान्यस्मादृषेः’ इति परिभाषया आङ्गिरसो हिरण्यस्तूप ऋषिः । अश्विनौ देवता । ‘क्व त्री चक्रा ’ इति नवमी ‘आ नो अश्विना ’ इति द्वादशी व त्रिष्टुभौ । शिष्टाः त्रिष्टुबन्तपरिभाषया जगत्यः । त्रिश्चिद्वादशाश्विनं नवम्यन्त्ये त्रिष्टुभौ ’ इत्यनुक्रमणिका । प्रातरनुवाके आश्विने क्रतौ जागते छन्दसि इदं सूक्तम् । अथाश्विनः’ इति खण्डे सूत्रितं – ’त्रिश्चिन्नो अद्येळे द्यावापृथिवी इति जागतम् ’ ( आश्व. श्रौ. ४. १५) इति । आश्विने शस्त्रेऽप्येतत् सूक्तं, ‘प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५) इत्यतिदिष्टत्वात् ॥

Jamison Brereton

34
Aśvins
Hiraṇyastūpa Āṅgirasa
12 verses: jagatī, except triṣṭubh 9, 12
This hymn has a simple and very insistent organizing principle: the number three. The Aśvins, of whom there are, of course, two, are urged to perform various actions three times a day, using equipment, especially their chariot, that has numerous tri ple features. The particular ritual reason for the glorification of three must be the three soma-pressings, but this ritual application is not made clear until verse 8. If, as we have argued, the Third Pressing is a ritual innovation in the R̥gveda, a hymn devoted to extolling it is not surprising.
The hymn falls into two unequal parts, each ending with a triṣṭubh verse (vss. 1–9, 10–12). In the first part the number three is especially celebrated, though the number is not absent in the second part (see vss. 11 and 12). The last three verses invite the Aśvins to drink the soma and to offer us rewards in return. Despite the metrical punctuation and the change in emphasis in the brief second part, there is no reason not to consider this hymn a unity.
From the grammatical point of view, the hymn contains what many scholars (including us) take as a precious archaism, the single occurrence of the phrase sū́re duhitā́ “daughter of the Sun” (vs. 5d), preserving in sū́re the sandhi of final -as of the genitive *sū́ras as -e before a dental in close phrasal sandhi. (For general discus
sion of this phenomenon, see Jamison 2010.) It perhaps escaped modernization because the focus of the hymn was not on the mythological marriage of Sūryā, daughter of the Sun, and she is only mentioned because of the incidental fact that the chariot she mounted had three standing places.

Jamison Brereton Notes

Aśvins

01 त्रिश्चिन्नो अद्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓श् चिन् नो अद्या᳓ भवतं नवेदसा
विभु᳓र् वां या᳓म उत᳓ राति᳓र् अश्विना
युवो᳓र् हि᳓ यन्त्रं᳓ हिमिये᳓व वा᳓ससो
अभ्यायंसे᳓न्या भवतम् मनीषि᳓भिः

02 त्रयः पवयो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्र᳓यः पव᳓यो मधुवा᳓हने र᳓थे
सो᳓मस्य वेना᳓म् अ᳓नु वि᳓श्व इ᳓द् विदुः
त्र᳓य स्कम्भा᳓स स्कभिता᳓स आर᳓भे
त्रि᳓र् न᳓क्तं याथ᳓स् त्रि᳓र् उ अश्विना दि᳓वा

03 समाने अहन्त्रिरवद्यगोहना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

समाने᳓ अ᳓हन् त्रि᳓र् अवद्यगोहना
त्रि᳓र् अद्य᳓ यज्ञ᳓म् म᳓धुना मिमिक्षतम्
त्रि᳓र् वा᳓जवतीर् इ᳓षो अश्विना युवं᳓
दोषा᳓ अस्म᳓भ्यम् उष᳓सश् च पिन्वतम्

04 त्रिर्वर्तिर्यातं त्रिरनुव्रते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् वर्ति᳓र् यातं त्रि᳓र् अ᳓नुव्रते जने᳓
त्रिः᳓ सुप्रावि᳓ये त्रे᳐धे᳓व शिक्षतम्
त्रि᳓र् नान्दि᳓यं वहतम् अश्विना युवं᳓
त्रिः᳓ पृ᳓क्षो अस्मे᳓ अक्ष᳓रेव पिन्वतम्

05 त्रिर्नो रयिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् नो रयिं᳓ वहतम् अश्विना युवं᳓
त्रि᳓र् देव᳓ताता त्रि᳓र् उता᳓वतं धि᳓यः
त्रिः᳓ सौभगत्वं᳓ त्रि᳓र् उत᳓ श्र᳓वांसि नस्
त्रिष्ठं᳓ वां सू᳓रे दुहिता᳓ रुहद् र᳓थम्

06 त्रिर्नो अश्विना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् नो अश्विना दिविया᳓नि भेषजा᳓
त्रिः᳓ पा᳓र्थिवानि त्रि᳓र् उ दत्तम् अद्भियः᳓
ओमा᳓नं शंयो᳓र् म᳓मकाय सून᳓वे
त्रिधा᳓तु श᳓र्म वहतं शुभस् पती

07 त्रिर्नो अश्विना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् नो अश्विना यजता᳓ दिवे᳓-दिवे
प᳓रि त्रिधा᳓तु पृथिवी᳓म् अशायतम्
तिस्रो᳓ नासत्या रथिया पराव᳓त
आत्मे᳓व वा᳓तः स्व᳓सराणि गछतम्

08 त्रिरश्विना सिन्धुभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् अश्विना सि᳓न्धुभिः सप्त᳓मातृभिस्
त्र᳓य आहावा᳓स् त्रे᳐धा᳓ हवि᳓ष् कृत᳓म्
तिस्रः᳓ पृथिवी᳓र् उप᳓रि प्रवा᳓ दिवो᳓
ना᳓कं रक्षेथे द्यु᳓भिर् अक्तु᳓भिर् हित᳓म्

09 क्वट् त्री - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कु᳓व त्री᳓ चक्रा᳓ त्रिवृ᳓तो र᳓थस्य
कु᳓व त्र᳓यो वन्धु᳓रो ये᳓ स᳓नीळाः
कदा᳓ यो᳓गो वाजि᳓नो रा᳓सभस्य
ये᳓न यज्ञं᳓ नासतियोपयाथः᳓

10 आ नासत्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नासत्या ग᳓छतं हूय᳓ते हवि᳓र्
म᳓ध्वः पिबतम् मधुपे᳓भिर् आस᳓भिः
युवो᳓र् हि᳓ पू᳓र्वं सवितो᳓ष᳓सो र᳓थम्
ऋता᳓य चित्रं᳓ घृत᳓वन्तम् इ᳓ष्यति

11 आ नासत्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नासत्या त्रिभि᳓र् एकादशइ᳓र् इह᳓
देवे᳓भिर् यातम् मधुपे᳓यम् अश्विना
प्रा᳓युस् ता᳓रिष्टं नी᳓ र᳓पांसि मृक्षतं
से᳓धतं द्वे᳓षो भ᳓वतं सचाभु᳓वा

12 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो अश्विना त्रिवृ᳓ता र᳓थेन
अर्वा᳓ञ्चं रयिं᳓ वहतं सुवी᳓रम्
शृण्व᳓न्ता वाम् अ᳓वसे जोहवीमि
वृधे᳓ च नो भवतं वा᳓जसातौ