०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इन्द्रस्य नु वीर्याणि ’ इति पञ्चदशर्चं द्वितीयं सूक्तम् । आङ्गिरसो हिरण्यस्तूप ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । ‘इन्द्रस्य पञ्चोना’ इत्यनुक्रमणिका । अग्निष्टोमे माध्यंदिने सवने निष्केवल्यशस्त्रे ‘इन्द्रस्य नु वीर्याणि ’ इति निविद्धानीयं सूक्तम् । ‘निष्केवल्यस्य’ इति खण्डे ‘इन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं दध्यात्’ (आश्व. श्रौ. ५. १५) इति । विषुवत्यपि तस्मिन् शस्त्रे एतत् विनियुक्तम् । ‘ विषुवान्दिवः कीर्त्यः’ इति खण्डे सूत्रितम् -’ इन्द्रस्य नु वीर्याणीति एतस्मिनैन्द्रीं निविदं शस्त्वा ’ ( आश्व. श्रौ. ८. ६ ) इति । महाव्रते निष्केवल्येऽप्येतदेव विनियुक्तम् । “राथन्तरो दक्षिणः पक्षः’ इति खण्डे ’ चतस्रः सतीः षड् बृहतीः करोतीन्द्रस्य नु वीर्याणि प्र वोचम् ’ (ऐ. आ. ५. २. २ ) इति ॥

Jamison Brereton

32
Indra
Hiraṇyastūpa Āṅgirasa
15 verses: triṣṭubh
This justly famous hymn tells of Indra’s most significant victory, his triumph over Vr̥tra and the release of the waters, in perhaps the clearest treatment of this primal myth in the R̥gveda. Vr̥tra was a gigantic cobra who lay coiled around a mountain within which all the waters were entrapped. In his battle with Indra, Vr̥tra spread his “shoulders,” his cobra’s hood, and struck at Indra with his fangs, but Indra finally killed Vr̥tra with his mace, broke open the mountain, and let the waters pour out. They then flowed to Manu (vs. 8), who was the first sacrificer, and by implication to his descendants. Vr̥tra’s name means “obstacle,” and this victory over “Obstacle” is therefore paradigmatic for Indra’s victory over all obstacles.
Despite the relative clarity of the treatment of the Vr̥tra battle, the hymn has a curious structure, obsessively circling around and alternately focusing in on and drawing back from the moment of dramatic confrontation between the adversar ies. After the initial verses of summary and the preliminaries to the battle (vss. 1–4), the next three verses (5–7) depict the battle, and it is portrayed as extremely one-sided, with the overconfident Vr̥tra overmatched from the beginning and deci sively smashed by Indra. (The signature verb of the first section of the hymn is √han “smash, smite.”) Defeated and dismembered, Vr̥tra lies there (the signature verb of this section is √śī “lie”) with his mother, and the released waters flow over them (8–11). After this interlude the hymn returns to a new description of the battle (12–13), which in this reprise is depicted as far more of an even match. Vr̥tra strikes at Indra with his fangs and deploys various natural forces against his adver sary. This more equal battle is encapsulated in the perfectly balanced construction índraś ca yád yuyudhā́te áhiś ca “when Indra and the serpent fought each other… ” (13c). It is unclear why the first triumphalist account has been revised to the more ambiguous, less glorious version—though both, of course, end with Vr̥tra’s defeat.
The most mysterious part of this hymn is the conclusion. Vr̥tra is dead, and even his mother Dānu has been killed, so there is no possibility of a new Vr̥tra. And yet Indra apparently becomes terrified and flies across the rivers “like a frightened falcon.” Perhaps this puzzling ending is related to the second version of the battle, in which Indra does not have quite the unchallenged heroic role that he plays in the first version. The poet does not explain but in the last verse simply returns to a praise of Indra as victor and king.

01 इन्द्रस्य नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस्य नु᳓ वीरि᳓याणि प्र᳓ वोचं
या᳓नि चका᳓र प्रथमा᳓नि वज्री᳓
अ᳓हन्न् अ᳓हिम् अ᳓नु अप᳓स् ततर्द
प्र᳓ वक्ष᳓णा अभिनत् प᳓र्वतानाम्

02 अहन्नहिं पर्वते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हन्न् अ᳓हिम् प᳓र्वते शिश्रियाणं᳓
त्व᳓ष्टास्मै व᳓ज्रं स्वरि᳓यं ततक्ष
वाश्रा᳓ इव धेन᳓वः स्य᳓न्दमाना
अ᳓ञ्जः समुद्र᳓म् अ᳓व जग्मुर् आ᳓पः

03 वृषायमाणोऽवृणीत सोमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषाय᳓माणो अवृणीत सो᳓मं
त्रि᳓कद्रुकेषु अपिबत् सुत᳓स्य
आ᳓ सा᳓यकम् मघ᳓वादत्त व᳓ज्रम्
अ᳓हन्न् एनम् प्रथमजा᳓म् अ᳓हीनाम्

04 यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इन्द्रा᳓हन् प्रथमजा᳓म् अ᳓हीनाम्
आ᳓न् मायि᳓नाम् अ᳓मिनाः प्रो᳓त᳓ मायाः᳓
आ᳓त् सू᳓रियं जन᳓यन् द्या᳓म् उषा᳓सं
तादी᳓त्ना श᳓त्रुं न᳓ कि᳓ला विवित्से

05 अहन्वृत्रं वृत्रतरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हन् वृत्रं᳓ वृत्रत᳓रं वि᳓अंसम्
इ᳓न्द्रो व᳓ज्रेण महता᳓ वधे᳓न
स्क᳓न्धांसीव कु᳓लिशेना वि᳓वृक्णा
अ᳓हिः शयत उपपृ᳓क् पृथिव्याः᳓

06 अयोद्धेव दुर्मद - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयोद्धे᳓व दुर्म᳓द आ᳓ हि᳓ जुह्वे᳓
महावीरं᳓ तुविबाध᳓म् ऋजीष᳓म्
ना᳓तारीद् अस्य स᳓मृतिं वधा᳓नां
सं᳓ रुजा᳓नाः पिपिष इ᳓न्द्रशत्रुः

07 अपादहस्तो अपृतन्यदिन्द्रमास्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपा᳓द् अहस्तो᳓ अपृतन्यद् इ᳓न्द्रम्
आ᳓स्य व᳓ज्रम् अ᳓धि सा᳓नौ जघान
वृ᳓ष्णो व᳓ध्रिः प्रतिमा᳓नम् बु᳓भूषन्
पुरुत्रा᳓ वृत्रो᳓ अशयद् वि᳓अस्तः

08 नदं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नदं᳓ न᳓ भिन्न᳓म् अमुया᳓ श᳓यानम्
म᳓नो रु᳓हाणा अ᳓ति यन्ति आ᳓पः
या᳓श् चिद् वृत्रो᳓ महिना᳓ पर्य᳓तिष्ठत्
ता᳓साम् अ᳓हिः पत्सुतःशी᳓र् बभूव

09 नीचावया अभवद्वृत्रपुत्रेन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नीचा᳓वया अभवद् वृत्र᳓पुत्रा
इ᳓न्द्रो अस्या अ᳓व व᳓धर् जभार
उ᳓त्तरा सू᳓र् अ᳓धरः पुत्र᳓ आसीद्
दा᳓नुः शये सह᳓वत्सा न᳓ धेनुः᳓

10 अतिष्टन्तीनामनिवेशनानां काष्टानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तिष्ठन्तीनाम् अनिवेशना᳓नां
का᳓ष्ठानाम् म᳓ध्ये नि᳓हितं श᳓रीरम्
वृत्र᳓स्य निण्यं᳓ वि᳓ चरन्ति आ᳓पो
दीर्घं᳓ त᳓म आ᳓शयद् इ᳓न्द्रशत्रुः

11 दासपत्नीरहिगोपा अतिष्टन्निरुद्धा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दास᳓पत्नीर् अ᳓हिगोपा अतिष्ठन्
नि᳓रुद्धा आ᳓पः पणि᳓नेव गा᳓वः
अपा᳓म् बि᳓लम् अ᳓पिहितं य᳓द् आ᳓सीद्
वृत्रं᳓ जघन्वाँ᳓ अ᳓प त᳓द् ववार

12 अश्व्यो वारो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वियो वा᳓रो अभवस् त᳓द् इन्द्र
सृके᳓ य᳓त् त्वा प्रत्य᳓हन् देव᳓ ए᳓कः
अ᳓जयो गा᳓ अ᳓जयः शूर सो᳓मम्
अ᳓वासृजः स᳓र्तवे सप्त᳓ सि᳓न्धून्

13 नास्मै विद्युन्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓स्मै विद्यु᳓न् न᳓ तन्यतुः᳓ सिषेध
न᳓ या᳓म् मि᳓हम् अ᳓किरद् ध्रादु᳓निं च
इ᳓न्द्रश् च य᳓द् युयुधा᳓ते अ᳓हिश् च
उता᳓परी᳓भ्यो मघ᳓वा वि᳓ जिग्ये

14 अहेर्यातारं कमपश्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हेर् याता᳓रं क᳓म् अपश्य इन्द्र
हृदि᳓ य᳓त् ते जघ्नु᳓षो भी᳓र् अ᳓गछत्
न᳓व च य᳓न् नवतिं᳓ च स्र᳓वन्तीः
श्येनो᳓ न᳓ भीतो᳓ अ᳓तरो र᳓जांसि

15 इन्द्रो यातोऽवसितस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो यातो᳓ अ᳓वसितस्य रा᳓जा
श᳓मस्य च शृङ्गि᳓णो व᳓ज्रबाहुः
से᳓द् उ रा᳓जा क्षयति चर्षणीना᳓म्
अरा᳓न् न᳓ नेमिः᳓ प᳓रि ता᳓ बभूव