०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ आ व इन्द्रम् ’ इति द्वाविंशत्यृचं सप्तमं सूक्तं शुनःशेपस्यार्षं गायत्रम् । ’ अस्माकम् ’ इत्येषा पादनिचृद्गायत्री । ’ त्रयः सप्तकाः पादनिचृत्। ’ ( अनु. ४.४) इति उक्तत्वात्। । ’ शश्वदिन्द्रः ’ इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ’ आश्विनावश्वावत्या ’ इत्याद्यास्तिस्र आश्विन्यः । ’ कस्त उषः ’ इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पादनिचृच्छश्वत्त्रिष्टुप्पपरौ तृचावाश्विनोषस्यौ ’ इति ।।

Jamison Brereton

30
Indra (1–16), Aśvins (17–19), Dawn (20–22)
Śunaḥśepa Ājīgarti
22 verses: gāyatrī, except triṣṭubh 16, arranged in tr̥cas
The first five tr̥cas (vss. 1–15) are dedicated to Indra, with the following verse (16), in a different meter, serving as a summary verse for this, the major part of the hymn. There follow one tr̥ca (vss. 17–19) dedicated to the Aśvins and one (vss. 20–22) to Dawn. All of these gods are, of course, associated with the rituals of early morning.
Although the contents of the hymn are fairly standard—praise and invitation to the gods and requests for their help and gifts—the syntax can be fussy and tricky. See especially the final tr̥ca to Indra (vss. 13–15), whose structure and import are not entirely clear. The portion of the hymn devoted to Indra focuses especially on the mutuality of our relationship as his comrades (see esp. vss. 6–12), and the theme of prizes and prize contests is prominent as well.

Jamison Brereton Notes

Indra, Aśvins, Dawn

01 आ व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ व इ᳓न्द्रं क्रि᳓विं यथा
वाजय᳓न्तः शत᳓क्रतुम्
मं᳓हिष्ठं सिञ्च इ᳓न्दुभिः

02 शतं वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ वा यः᳓ शु᳓चीनां᳐
सह᳓स्रं वा स᳓माशिराम्
ए᳓द् उ निम्नं᳓ न᳓ रीयते

03 सं यन्मदाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ य᳓न् म᳓दाय शुष्मि᳓ण
एना᳓ हि᳓ अस्य उद᳓रे
समुद्रो᳓ न᳓ व्य᳓चो दधे᳓

04 अयमु ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् उ ते स᳓म् अतसि
कपो᳓त इव गर्भधि᳓म्
व᳓चस् त᳓च् चिन् न ओहसे

05 स्तोत्रं राधानाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोत्रं᳓ राधाना᳐म् पते
गि᳓र्वाहो वीर य᳓स्य ते
वि᳓भूतिर् अस्तु सूनृ᳓ता

06 ऊर्ध्वस्तिष्टा न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्व᳓स् तिष्ठा न ऊत᳓ये
अस्मि᳓न् वा᳓जे शतक्रतो
स᳓म् अन्ये᳓षु ब्रवावहै

07 योगेयोगे तवस्तरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

+++(रथादि)+++यो᳓गेयोगे तव᳓स्+++(=गति[वत्])+++तरव्ँ
वा᳓जेवाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ स᳓खाय+++(ः)+++ इ᳓न्द्रम् ऊत᳓ये ।+++(५)+++

08 आ घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ घा गमद् य᳓दि श्र᳓वत्
सहस्रि᳓णीभिर् ऊति᳓भिः
वा᳓जेभिर् उ᳓प नो ह᳓वम्

09 अनु प्रत्नस्यौकसो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु प्रत्न᳓स्य ओ᳓कसो
हुवे᳓ तुविप्रतिं᳓ न᳓रम्
यं᳓ ते पू᳓र्वम् पिता᳓ हुवे᳓

10 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा वयं᳓ विश्ववार
आ᳓ शास्महे पुरुहूत
स᳓खे वसो जरितृ᳓भ्यः

11 अस्माकं शिप्रिणीनाम् - पादनिचृद्गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कं शिप्रि᳓णीनां᳐
सो᳓मपाः सोमपा᳓व्ना᳐म्
स᳓खे वज्रिन् स᳓खीना᳐म्

12 तथा तदस्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓था त᳓द् अस्तु सोमपाः
स᳓खे वज्रिन् त᳓था कृणु
य᳓था त उश्म᳓सीष्ट᳓ये

13 रेवतीर्नः सधमाद - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रे+++(=रयि)+++-व᳓तीर् नः सध+++(=सह)+++-मा᳓द
इ᳓न्द्रे सन्तु तुवि᳓+++(=बहु)+++-वाजाः ।
क्षुम᳓न्तो+++(=कीर्तिमन्तो)+++ या᳓भिर् म᳓देम

14 आ घ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ घ त्वा᳓वान् त्म᳓ना आप्त᳓
स्तोतृ᳓भ्यो धृष्णव् इयानः᳓
ऋणो᳓र् अ᳓क्षं न᳓ चक्रि᳓योः

15 आ यद्दुवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓द् दु᳓वः शतक्रतव्
आ᳓ का᳓मं जरितॄणा᳐᳓म्
ऋणो᳓र् अ᳓क्षं न᳓ श᳓चीभिः

16 शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓श्वद् इ᳓न्द्रः पो᳓प्रुथद्भिर् जिगाय
ना᳓नदद्भिः शा᳓श्वसद्भिर् ध᳓नानि
स᳓ नो हिरण्यरथं᳓ दंस᳓नावान्
स᳓ नः सनिता᳓ सन᳓ये स᳓ नो ऽदात्

17 आश्विनावश्वावत्येषा यातम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ अश्विनाव् अ᳓श्वावत्या
इषा᳓ यातं श᳓वीरया
गो᳓मद् दस्रा हि᳓रण्यवत्

18 समानयोजनो हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समान᳓योजनो हि᳓ वां
र᳓थो दस्राव् अ᳓मर्तियः
समुद्रे᳓ अश्विने᳓यते

19 न्यट्घ्न्यस्य मूर्धनि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ अघ्निय᳓स्य मूर्ध᳓नि
चक्रं᳓ र᳓थस्य येमथुः
प᳓रि द्या᳓म् अन्य᳓द् ईयते

20 कस्त उषः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓स् त उषः कधप्रिये
भुजे᳓ म᳓र्तो अमर्तिये
कं᳓ नक्षसे विभावरि

21 वयं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ हि᳓ ते अ᳓मन्महि
आ᳓ अ᳓न्ताद् आ᳓ पराका᳐᳓त्
अ᳓श्वे न᳓ चित्रे अरुषि

22 त्वं त्येभिरा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ तिये᳓भिर् आ᳓ गहि
वा᳓जेभिर् दुहितर् दिवः
अस्मे᳓ रयिं᳓ नि᳓ धारय