०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यच्चिद्धि सत्य सोमपाः’ इति षष्ठं सूक्तं सप्तर्चं शुनःशेपस्यार्षं पाङ्त्कमैन्द्रम्। अनुक्रमणिका - *यच्चिद्धि सप्त पाङ्क्तम् ’ इति ॥ पृष्ठ्यषडहस्य पञ्चमेऽहनि माध्यंदिने सवने होत्रकाः ‘यच्चिद्धि’ इति सप्तर्चं सूक्तं त्रींस्तृचान्कृत्वा स्वस्वशस्त्रे एकैकं तृचमावपेरन् । ‘चतुर्थेऽहनि’ इतिखण्डे ‘यच्चिद्धि सत्य सोमपा इत्येकैकमेवमेव ’ ( आश्व. श्रौ. ७. ११) इति सूत्रितम् ॥

Jamison Brereton

29
Indra
Śunaḥśepa Ājīgarti
7 verses: paṅkti
The last three pādas of each five-pāda verse in this hymn constitute a refrain beg ging Indra to give us hope of acquiring abundant livestock. The refrain fits well in the first two verses, but then the hymn takes an odd turn, expressing increasing hostility toward a variety of unidentified or unidentifiable (see the near hapaxes in vss. 6–7) beings, while continuing to hope blandly for cows and horses in the refrain. The hymn is reminiscent of the “sleep charm” (VII.55), though the latter is more benign in intent, and I.29 also has an Atharvan cast.

Jamison Brereton Notes

Indra

01 यच्चिद्धि सत्य - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

02 शिप्रिन्वाजानां पते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

03 नि ष्वापया - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

04 ससन्तु त्या - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

05 समिन्द्र गर्दभम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

06 पताति कुण्डृणाच्या - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

07 सर्वं परिक्रोशम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥