०२७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अश्वं न त्वा’ इति त्रयोदशर्चं चतुर्थं सूक्तम् । पूर्ववत् ऋष्यादयः। त्रयोदश्याः ‘नमो महद्भ्यः इत्यस्याः त्रिष्टुप् छन्दः। विश्वेदेवा देवता। तथा चानुक्रान्तम्–अश्वं सप्तोना गायत्रेऽन्त्या दैवी त्रिष्टुप्’ इति ॥ प्रातरनुवाकाश्विनशस्त्रयोः उत्तमावर्जितस्य सूक्तस्य विनियोग उक्तः ॥

Jamison Brereton

27
Agni (1–12), Gods (13)
Śunaḥśepa Ājīgarti
13 verses: gāyatrī, except triṣṭubh 13
This second Agni hymn in the Śunaḥśepa collection is longer than the first (I.26), and is therefore likely to be a composite. This conjecture is supported by the metri cal evidence, in that verses 1–6 and 10–12 are in trochaic gāyatrī, while the interven ing verses 7–9 have no trochaic pādas. These three verses (7–9) are also thematically unified by a focus on a mortal, aided by Agni, who seeks a prize.
The rest of the hymn is more diffuse in content and surprisingly awkward in phraseology. The final verse (13), in triṣṭubh, makes no mention of Agni and may have been tacked onto this already loosely structured assemblage because its signa ture word námas “reverence” matches the last word of the first hemistich of verse 1, námobhiḥ “with reverences.”

Jamison Brereton Notes

Agni

01 अश्वं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वं॒ न त्वा॒ वार॑(=ल)वन्तं
व॒न्दध्या॑(=वन्दितुम्) अ॒ग्निं नमो॑भिः ।
स॒म्राज॑न्तमध्व॒राणा॑म् (प्रवृत्ताः)

02 स घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ ।
मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥

03 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥

04 इममू षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥

05 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥

06 विभक्तासि चित्रभानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
स॒द्यो दा॒शुषे॑ क्षरसि ॥

07 यमग्ने पृत्सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
स यन्ता॒ शश्व॑ती॒रिषः॑ ॥

08 नकिरस्य सहन्त्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
वाजो॑ अस्ति श्र॒वाय्यः॑ ॥

09 स वाजम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
विप्रे॑भिरस्तु॒ सनि॑ता ॥

10 जराबोध तद्विविड्ढि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जरा॑(=स्तुति)बोध॒ तद्वि॑विड्ढि(=प्रविश)
वि॒शेवि॑शे य॒ज्ञिया॑य ।
स्तोमं॑(=स्तोत्रं) रु॒द्राय॒(ते) दृशी॑कम्(=दर्शनीयम्)

11 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
धि॒ये वाजा॑य हिन्वतु ॥

12 स रेवाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥

13 नमो महद्भ्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ ।
यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥