०२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रातर्युजा’ इत्यादिकमेकविंशत्यृचं पञ्चमं सूक्तम् । तस्य ऋषिच्छन्दसी पूर्ववत् । देवताविशेषस्त्वनुक्रम्यते– प्रातर्युजा सैका चतस्र आश्विन्यस्तथा सावित्र्य आग्नेय्यौ द्वे देवीनामेकैकेन्द्राणीवरुणान्यग्नायीनां द्यावापृथिव्ये पार्थिवी षड्वैष्णव्योऽतो देवा दैवी वा’ इति । ‘सूक्तसंख्यानुवर्तते ’ इत्यस्मिन् खण्डे अनिरुक्ता संख्या विंशतिः’ (अनु. १२. ४ ) इति परिभाषितत्वात् ‘ प्रातर्युजा’ इति सूक्ते संख्याविशेषस्यानिरुक्ता संख्या विंशतिसंख्या द्रष्टव्या । सा च विंशतिः एकयाधिकया सह वर्तते इति सैका । तत्रादौ चतस्र ऋचः अश्विदेवताकाः । पञ्चमीमारभ्य अष्टम्यन्ताः चतस्रः सवितृदेवताकाः । नवमी दशमी चोभे अग्निदेवताके । एकादश्या ऋचो देवसंबन्धिन्यो देव्यो देवताः । द्वादश्या इन्द्रवरुणाग्निपत्न्य इन्द्राणीवरुणान्यग्नाय्यो देवताः । त्रयोदशीचतुर्दश्यौ द्यावापृथिवीदेवताके । पञ्चदशी पार्थिवी । षोडश्याद्याः षट् विष्णुदेवत्याः । षोडशी कृत्स्नदेवत्या वा । अत्र सूक्तविनियोगो लैङ्गिकः । प्रातरनुवाके आश्विने क्रतौ ‘ प्रातर्युजा वि बोधय’ इति चतस्र ऋचः । सूत्रितं च - ’अथाश्विन एषो उषाः प्रातर्युजेति चतस्रः ’ ( आश्व. श्रौ. ४. १५ ) इति । आश्विनग्रहस्य ‘प्रातर्युजा’ इत्येका पुरोनुवाक्या । ‘द्विदेवत्यैश्चरन्ति’ इति खण्डे सूत्रितम्- आश्विनस्य प्रातर्युजा वि बोधय’ (आश्व. श्रौ. ५. ५) इति ।

Jamison Brereton

22
Various Gods (Aśvins 1–4, Savitar 5–8, Agni 9–10, Gods 11, Indrāṇī, Varuṇānī, Agnāyī 12, Heaven and Earth 13–14, Earth 15, Viṣṇu or Gods 16, Viṣṇu 17–21)
Medhātithi Kāṇva
21 verses: gāyatrī
The Medhātithi group ends with two lengthy hymns to a variety of divini ties: the ascriptions of the Anukramaṇī are reproduced above. As Oldenberg points out (1888: 224–25; Noten ad loc.), both hymns can easily be broken down into smaller hymns, which then conform to the principles of arrangement in the Saṃhitā. The clear changes of divinity support the division of this hymn into smaller units, although Oldenberg’s divisions do not altogether match those of the Anukramaṇī; Oldenberg’s are clearly superior: 1–4, 5–8, 9–12, 13–15, 16–18, 19–21.
Like the immediately preceding hymn, the first sections of this one are pri marily devoted to invocation of the various gods: the Aśvins in verses 1–4, Savitar in 5–8. In a slight variation on this theme, in verses 9–12 Agni is called upon to bring Tvaṣṭar and the Wives of the Gods to the sacrifice; this divine group figures in a number of minor rites in the Soma Sacrifice (especially the Third Pressing) and elsewhere. The next three verses (13–15) concern Heaven and Earth; the middle verse (14) is the only truly enigmatic one in the hymn. The final six verses (16–21) consist of two tr̥cas to Viṣṇu, which, both by the principles of arrangement and by their phraseology, should be considered two separate hymns. There is no obvious reason, either ritual or mythological, for collecting these particular short compositions in a single super-hymn. As Oldenberg argues, the grouping and order seem to be entirely mechanical.

Jamison Brereton Notes

Various divinities

01 प्रातर्युजा वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातर्यु᳓जा वि᳓ बोधय
अश्वि᳓नाव् ए᳓ह᳓ गछताम्
अस्य᳓ सो᳓मस्य पीत᳓ये

02 या सुरथा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ सुर᳓था रथी᳓तम
उभा᳓ देवा᳓ दिविस्पृ᳓शा
अश्वि᳓ना ता᳓ हवामहे

03 या वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ वां क᳓शा म᳓धुमत्य्
अ᳓श्विना सू-नृ᳓तावती+++(←नृत्)+++ ।
त᳓या यज्ञं᳓ मिमिक्षतम्+++(←मिह्)+++ ॥

04 नहि वामस्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ वाम् अ᳓स्ति दूरके᳓
य᳓त्रा र᳓थेन ग᳓छथः
अ᳓श्विना सोमि᳓नो गृह᳓म्

05 हिरण्यपाणिमूतये सवितारमुप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हि᳓रण्य-पाणिम् ऊत᳓ये
सविता᳓रम् उ᳓प ह्वये
स᳓ चे᳓त्ता+++(=ज्ञाता)+++ देव᳓ता पद᳓म् ॥

06 अपां नपातमवसे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अपां᳓ न᳓पातम् अ᳓वसे
सविता᳓रम् उ᳓प स्तुहि
त᳓स्य व्रता᳓नि उश्मसि

07 विभक्तारं हवामहे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विभक्ता᳓रं हवामहे
व᳓सोश् चित्र᳓स्य रा᳓धसः
सविता᳓रं नृच᳓क्षसम्

08 सखाय आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓खाय आ᳓ नि᳓ षीदत
सविता᳓ स्तो᳓मियो नु᳓ नः
दा᳓ता रा᳓धांसि शुम्भति

09 अग्ने पत्नीरिहा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने प᳓त्नीर् इहा᳓ वह
देवा᳓नाम् उशती᳓र् उ᳓प
त्व᳓ष्टारं सो᳓मपीतये

10 आ ग्ना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ग्ना᳓ अग्न इहा᳓वसे
हो᳓त्रां यविष्ठ भा᳓रतीम्
व᳓रूत्रीं धिष᳓णां वह

11 अभि नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ नो देवी᳓र् अ᳓वसा
महः᳓ श᳓र्मणा नृप᳓त्नीः
अ᳓छिन्नपत्राः सचन्ताम्

12 इहेन्द्राणीमुप ह्वये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इहे᳓न्द्राणी᳓म् उ᳓प ह्वये
वरुणानीं᳓ सुअस्त᳓ये
अग्ना᳓यीं सो᳓मपीतये

13 मही द्यौः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मही᳓ द्यौः᳓ पृथिवी᳓ च
न इमं᳓ यज्ञं᳓ मिमिक्षताम् ।
पिपृतां᳓ नो भ᳓रीमभिः+++(=भरणैः)+++ ॥

14 तयोरिद्घृतवत्पयो विप्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓योर् इ᳓द् घृत᳓वत् प᳓यो
वि᳓प्रा रिहन्ति धीति᳓भिः
गन्धर्व᳓स्य ध्रुवे᳓ पदे᳓

15 स्योना पृथिवि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्योना᳓+++(=सुखरूपा)+++ पृथिवि भव+
अनृक्षरा᳓+++(=कण्टकादिरहिता)+++ निवे᳓शनी ।
य᳓च्छा नश् श᳓र्म सप्र᳓थाः+++(=सकीर्तिः)+++ ।

16 अतो देवा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तो देवा᳓ अवन्तु नो
य᳓तो वि᳓ष्णुर् विचक्रमे᳓
पृथिव्याः᳓ सप्त᳓ धा᳓मभिः

17 इदं विष्णुर्वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इद᳓व्ँ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

18 त्रीणि पदा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्री᳓णि पदा᳓ वि᳓ चक्रमे
वि᳓ष्णुर् गोपा᳓ अ᳓दाभियः
अ᳓तो ध᳓र्माणि धार᳓यन्

19 विष्णोः कर्माणि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ष्णोः क᳓र्माणि पश्यत
य᳓तो व्रता᳓नि पस्पशे᳓+++(←स्पश बाधनस्पर्शनयोः)+++ ।
इ᳓न्द्रस्य यु᳓ज्यः स᳓खा ॥

20 तद्विष्णोः परमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द्वि᳓ष्णोः परमं᳓ पदं᳓
स᳓दा पश्यन्ति सूर᳓यः ।
दिवी᳙व च᳓क्षुर्+++(→सूर्यः|श्रोणाः)+++ आ᳓ततम् ॥

21 तद्विप्रासो विपन्यवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् वि᳓प्रासो विपन्य᳓वो
जागृवां᳓सः स᳓म् इन्धते
वि᳓ष्णोर् य᳓त् परम᳓म् पद᳓म्