०२०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ’ अयं देवाय ’ इत्यष्टर्चं सूक्तम् । तस्य ऋषि- च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते’ अयमष्टावार्भवम् ’ इति । विनियोगस्तु सूक्तस्य लैङ्गिकः स्मार्तो वा द्रष्टव्यः । व्यूढस्य प्रथमे छन्दोमे वैश्वदेवशस्त्रे ’ अयं देवाय जन्मने ’ इति आर्भवस्तृचः । ’ अथ च्छन्दोमाः ’ इति खण्डे सूत्रितम्-’ अभित्वा देव सवितः प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन इति तृचाः ’ ( आश्व. श्रौ. ८. ९) इति ।।

Jamison Brereton

20
R̥bhus
Medhātithi Kāṇva
8 verses: gāyatrī
This hymn works briskly and efficiently through the marvelous feats accomplished by the R̥bhus, a trio of craftsmen, originally mortal, who attained immortality and a share in the sacrifice by their skilled work. This last achievement is stated clearly in the final verse (8; see also 2c, 5), while verses 2–6 enumerate the separate actions that led to it. Several features give shape to the basic list structure of the hymn. The name of the divine dedicands appears only once, in the exact middle of the hymn (vs. 4c), and the adjective “best conferring treasures” of 1c is opened out into its phrasal syntactic equivalent “confer treasures” in verse 7, providing a loose ring.

Jamison Brereton Notes

Ṛbhus

01 अयं देवाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥

02 य इन्द्राय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥

03 तक्षन्नासत्याभ्यां परिज्मानम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥

04 युवाना पितरा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यम॑न्त्रा ऋजू॒यवः॑ ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥

05 सं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥

06 उत त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
अक॑र्त च॒तुरः॒ पुनः॑ ॥

07 ते नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभिः॑ ॥

08 अधारयन्त वह्नयोऽभजन्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥