०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ त्वा वहन्तु ’ इति पञ्चमं नवर्चं सूक्तम् । ऋषिच्छन्दसी पूर्ववदनुवर्तते । विशेषादेशाभावात् इन्द्रो देवता । विनियोगस्तु - प्रातःसवने मैत्रावरुणस्योन्नीयमाने सूक्तम् ‘ आ त्वा वहन्तु हरयः’ इति । तथा च ‘ द्विदेवत्यैश्चरन्ति ’ इति खण्डे सूत्रितम् - उन्नीयमानेभ्योऽन्वाहा त्वा वहन्तु ’ ( आश्व. श्रौ. ५. ५ ) इति । तथा षोडशिशस्त्रे ‘आ त्वा वहन्तु हरयः’ इति तिस्रः । तथा सूत्रितम् ’ अथ षोड्शी’ इति खण्डे- ‘ आ त्वा वहन्तु हरय इति तिस्रो गायत्र्यः’ ( आश्व. श्रौ. ६. २ ) इति ॥

Jamison Brereton

16
Indra
Medhātithi Kāṇva
9 verses: gāyatrī
This is nothing more than an extended invitation to Indra to come to the sacrifice, with a tempting menu of offerings and praises. One might say about this hymn that it makes reading the R̥gveda seem easy; it also makes it seem not worth the trouble.

Jamison Brereton Notes

Indra

01 आ त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा वहन्तु ह᳓रयो
वृ᳓षणं सो᳓मपीतये
इ᳓न्द्र त्वा सू᳓रचक्षसः

02 इमा धाना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ धाना᳓ घृतस्नु᳓वो
ह᳓री इहो᳓प वक्षतः
इ᳓न्द्रं सुख᳓तमे र᳓थे

03 इन्द्रं प्रातर्हवामह - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् प्रात᳓र् हवामह
इ᳓न्द्रम् प्रयति᳓ अध्वरे᳓
इ᳓न्द्रं सो᳓मस्य पीत᳓ये

04 उप नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प नः सुत᳓म् आ᳓ गहि
ह᳓रिभिर् इन्द्र केशि᳓भिः
सुते᳓ हि᳓ त्वा ह᳓वामहे

05 सेमं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

से᳓मं᳓ न स्तो᳓मम् आ᳓ गहि
उ᳓पेदं᳓ स᳓वनं सुत᳓म्
गौरो᳓ न᳓ तृषितः᳓ पिब

06 इमे सोमास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ सो᳓मास इ᳓न्दवः
सुता᳓सो अ᳓धि बर्हि᳓षि
ताँ᳓ इन्द्र स᳓हसे पिब

07 अयं ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ ते स्तो᳓मो अग्रियो᳓
हृदि-स्पृ᳓ग् अस्तु श᳓न्तमः ।
अ᳓था सो᳓मं सुतं᳓ पिब

08 विश्वमित्सवनं सुतमिन्द्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वम् इ᳓त् स᳓वनं सुत᳓म्
इ᳓न्द्रो म᳓दाय गछति
वृत्रहा᳓ सो᳓मपीतये

09 सेमं नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

से᳓मं᳓ नः का᳓मम् आ᳓ पृण
गो᳓भिर् अ᳓श्वैः शतक्रतो
स्त᳓वाम त्वा सुआधि᳓यः