०१४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ऐभिरग्ने’ इत्यादिकस्य द्वादशर्चस्य तृतीयसूक्तस्य ऋषिच्छन्दसी पूर्ववत् । तच्च सूक्तं बहुदेवताकम् । अत एवानुक्रम्यते - ऐभिर्वैश्वदेवम्’ इति । विनियोगस्तु -व्यूढद्वादशाहस्य प्रथमे छन्दोमे तृतीयसवने वैश्वदेवशस्त्रे ‘ऐभिरग्ने दुवो गिरः’ इति सूक्तम् । तथा च सूत्रितम् -’ अथ छन्दोमाः समुद्रादूर्मिः’ इत्युपक्रम्य “ ऐभिरग्ने दुवो गिर इति वैश्वदेवम् ’ ( आश्व. श्रौ. ८. ९) इति ॥

Jamison Brereton

14
All Gods
Medhātithi Kāṇva
12 verses: gāyatrī
Though this hymn is dedicated to the All Gods, its focus is on Agni’s role in conveying the gods to the sacrifice and serving as the mouth and tongue through which they drink the oblations (see esp. vss. 7–8). The All God theme is cleverly introduced in the first verse by parceling out the phrase “with all these gods,” a word at the beginning of each pāda (an effect clumsily reproduced in transla
tion), and an enumeration of some of the most important of the gods is given in verse 3, But otherwise (save for mention of Indra and Vāyu, the recipients of the first soma offering, in vs. 10) the gods are an undifferentiated group and backgrounded to Agni.
The poet does not forget his own, however. He mentions his kin-group, the Kaṇvas, twice (vss. 2, 5) as the ritualists preparing the sacrifice.

Jamison Brereton Notes

All Gods

01 ऐभिरग्ने दुवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अइ᳓भिर् अग्ने दु᳓वो गि᳓रो
वि᳓श्वेभिः सो᳓मपीतये
देवे᳓भिर् याहि य᳓क्षि च

02 आ त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा क᳓ण्वा अहूषत
गृण᳓न्ति विप्र ते धि᳓यः
देवे᳓भिर् अग्न आ᳓ गहि

03 इन्द्रवायू बृहस्पतिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रवायू᳓ बृ᳓हस्प᳓तिम्
मित्रा᳓ग्नि᳓म् पूष᳓णम् भ᳓गम्
आदित्या᳓न् मा᳓रुतं गण᳓म्

04 प्र वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो भ्रियन्त इ᳓न्दवो
मत्सरा᳓ मादयिष्ण᳓वः
द्रप्सा᳓ म᳓ध्वश् चमूष᳓दः

05 ईळते त्वामवस्यवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓ळते त्वा᳓म् अवस्य᳓वः
क᳓ण्वासो वृक्त᳓बर्हिषः
हवि᳓ष्मन्तो अरंकृ᳓तः

06 घृतपृष्टा मनोयुजो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

घृत᳓पृष्ठा मनोयु᳓जो
ये᳓ त्वा व᳓हन्ति व᳓ह्नयः
आ᳓ देवा᳓न् सो᳓मपीतये

07 तान्यजत्राँ ऋतावृधोऽग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓न् य᳓जत्राँ ऋतावृ᳓धो
अ᳓ग्ने प᳓त्नीवतस् कृधि
म᳓ध्वः सुजिह्व पायय

08 ये यजत्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ य᳓जत्रा य᳓ ई᳓डियास्
ते᳓ ते पिबन्तु जिह्व᳓या
म᳓धोर् अग्ने व᳓षट्कृति

09 आकीं सूर्यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓कीं सू᳓र्यस्य रोचना᳓द्
वि᳓श्वान् देवाँ᳓ उषर्बु᳓धः
वि᳓प्रो हो᳓तेह᳓ वक्षति

10 विश्वेभिः सोम्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वेभिः सोमिय᳓म् म᳓धु
अ᳓ग्न इ᳓न्द्रेण वायु᳓ना
पि᳓बा मित्र᳓स्य धा᳓मभिः

11 त्वं होता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हो᳓ता म᳓नुर्हितो
अ᳓ग्ने यज्ञे᳓षु सीदसि
से᳓मं᳓ नो अध्वरं᳓ यज

12 युक्ष्वा ह्यरुषी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

युक्ष्वा᳓ हि᳓ अ᳓रुषी र᳓थे
हरि᳓तो देव रोहि᳓तः
ता᳓भिर् देवाँ᳓ इहा᳓ वह