०१३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“ सुसमिद्धः’ इत्यादिकं द्वादशर्चं द्वितीयमाप्रीसूक्तम् । तस्य काण्वो मेधातिथिर्ऋषिः । गायत्रं छन्दः । प्रत्यूचं प्रतीयमानाः समिद्धतनूनपादादिका द्वादश देवताः । तथा च अनुक्रमणिकायाम् ऋक्संख्यामृर्षि छन्दश्च अनुवृत्तिबलात् सिद्धवत्कृत्य देवता उदाहृताः - सुसमिद्ध इतीध्मः समिद्धो वाग्निस्तनूनपान्नराशंस इळो बर्हिर्दैवीर्द्वार उषासानक्ता दैव्यौ होतारौ प्रचेतसौ तिस्रो देव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतय इति प्रत्यृचं देवता एतदाप्रीसूक्तम्’ इति । विनियोगस्तु - पशौ ‘ सुसमिद्धो न आ वह ’ इति काण्वमाप्रीसूक्तम् । ‘ एकादश प्रयाजाः’ इति खण्डे सूत्रितं - समिद्धो अद्येति सर्वेषां यथर्षि वा ’ (आश्व. श्रौ. ३. २) इति ॥

Jamison Brereton

13
Āprī
Medhātithi Kāṇva
12 verses: gāyatrī
This is the first Āprī hymn to be encountered in the R̥gveda of the ten in the text. In these hymns, associated with a litany during the Animal Sacrifice, a set series of subjects or key words (here italicized) is treated verse by verse, in fixed order but with variable wording. This particular Āprī hymn is a much less elaborated version than some exemplars of this form; in this hymn the default model verse is a bare mention of the topic as object of the phrase “I invite” (vss. 3, 7, 8, 10, 12). Description is minimal and for the most part predictable.

Jamison Brereton Notes

Āprī

01 सुसमिद्धो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु᳓समिद्धो न आ᳓ वह
देवाँ᳓ अग्ने हवि᳓ष्मते
हो᳓तः पवाक+ य᳓क्षि च

02 मधुमन्तं तनूनपाद्यज्ञम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓धुमन्तं तनूनपाद्
यज्ञं᳓ देवे᳓षु नः कवे
अद्या᳓ कृणुहि वीत᳓ये

03 नराशंसमिह प्रियमस्मिन्यज्ञ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓राशं᳓सम् इह᳓ प्रिय᳓म्
अस्मि᳓न् यज्ञ᳓ उ᳓प ह्वये
म᳓धुजिह्वं हविष्कृ᳓तम्

04 अग्ने सुखतमे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने सुख᳓तमे र᳓थे
देवाँ᳓ ईळित᳓ आ᳓ वह
अ᳓सि हो᳓ता म᳓नुर्हितः

05 स्तृणीत बर्हिरानुषग्घृतपृष्टम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्तृणीत᳓ बर्हि᳓र् आनुष᳓ग्
घृत᳓पृष्ठम् मनीषिणः
य᳓त्रामृ᳓तस्य च᳓क्षणम्

06 वि श्रयन्तामृतावृधो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ श्रयन्ताम् ऋतावृ᳓धो
द्वा᳓रो देवी᳓र् असश्च᳓तः
अद्या᳓ नूनं᳓ च य᳓ष्टवे

07 नक्तोषासा सुपेशसास्मिन्यज्ञ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓क्तोषा᳓सा सुपे᳓शसा
अस्मि᳓न् यज्ञ᳓ उ᳓प ह्वये
इदं᳓ नो बर्हि᳓र् आस᳓दे

08 ता सुजिह्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ सुजिह्वा᳓ उ᳓प ह्वये
हो᳓तारा दइ᳓विया कवी᳓
यज्ञं᳓ नो यक्षताम् इम᳓म्

09 इळा सरस्वती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ळा स᳓रस्वती मही᳓
तिस्रो᳓ देवी᳓र् मयोभु᳓वः
बर्हिः᳓ सीदन्तु अस्रि᳓धः

10 इह त्वष्थारमग्रियम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्व᳓ष्टारम् अग्रियं᳓
विश्व᳓रूपम् उ᳓प ह्वये
अस्मा᳓कम् अस्तु के᳓वलः

11 अव सृजा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व सृजा वनस्पते
दे᳓व देवे᳓भियो हविः᳓
प्र᳓ दातु᳓र् अस्तु चे᳓तनम्

12 स्वाहा यज्ञम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्वा᳓हा यज्ञं᳓ कृणोतन
इ᳓न्द्राय य᳓ज्वनो गृहे᳓
त᳓त्र देवाँ᳓ उ᳓प ह्वये