०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

चतुर्थानुवाके षट्सूक्तानि । तत्र • अग्नि दूतम्’ इत्यादिकस्य द्वादशर्चस्य प्रथमस्य सूक्तस्य कण्वपुत्रो मेधातिथिर्ऋषिः । अपवादाभावादनुवर्तमानं प्राग्घिरण्यस्तूपात् ’ ( अनु. १२. १४ ) इत्युक्तं गायत्रमेव छन्दः । अग्निदेवताकत्वं विस्पष्टम् । अत एवानुक्रम्यते-’ अग्निं द्वादश मेधातिथिः काण्व आग्नेयमग्निनेति पदो द्व्यग्निदैवतो निर्मथ्य आहवनीयश्च’ इति । विनियोगस्तु प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि ‘ अग्निं दूतम् ’ इति सूक्तम् । अथैतस्या रात्रेर्विवासकाले ’ इति खण्डे ‘अग्निमीळेऽग्निं दूतम्’ (आश्व.श्रौ.. ४. १३ ) इति सूत्रितम् । तथा पृष्ठ्यषडहस्य द्वितीयेऽहनि इदमेव सूक्तमाज्यशस्त्रम् । ‘पृष्ठ्यस्याभिप्लवेनोक्ते अहनी’ इति खण्डे सूत्रितम्- अग्निं दूतमिति द्वितीये’ (आश्व. श्रौ. ७. १० ) इति । दर्शपूर्णमासयोः सामिधेनीषु ‘अग्निं दूतम्’ इत्येका। ‘नमः प्रवक्त्रे’ इति खण्डे सूत्रितम्- ईळेन्यो नमस्यस्तिरोऽग्निं दूतं वृणीमहे ’ ( आश्व. श्रौ. १. २) इति ॥

Jamison Brereton

12
Agni
Medhātithi Kāṇva
12 verses: gāyatrī
This simple hymn has a high proportion of pādas repeated from other hymns, and in some ways seems to have been assembled rather than composed. It touches on the standard characteristics and roles of Agni: messenger, priest, and poet, con veyor of the gods to the sacrifice, and protector and benefactor of men. There is essentially no description of fire; the focus is entirely on the ritual.

Jamison Brereton Notes

Agni

01 अग्निं दूतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ दूतं᳓ वृणीमहे
हो᳓तारं विश्व᳓वेदसम्
अस्य᳓ यज्ञ᳓स्य सुक्र᳓तुम्

02 अग्निमग्निं हवीमभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓म्-अग्निं ह᳓वीमभिः
स᳓दा हवन्त विश्प᳓तिम्
हव्यवा᳓हम् पुरुप्रिय᳓म्

03 अग्ने देवाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने देवाँ᳓ इहा᳓ वह
जज्ञानो᳓ वृक्त᳓बर्हिषे
अ᳓सि हो᳓ता न ई᳓डियः

04 ताँ उशतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ताँ᳓ उशतो᳓ वि᳓ बोधय
य᳓द् अग्ने या᳓सि दूति᳓यम्
देवइ᳓र् आ᳓ सत्सि बर्हि᳓षि

05 घृताहवन दीदिवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

घृ᳓ताहवन दीदिवः
प्र᳓ति ष्म रि᳓षतो दह
अ᳓ग्ने तुवं᳓ रक्षस्वि᳓नः

06 अग्निनाग्निः समिध्यते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓नाग्निः᳓ स᳓म् इध्यते
कवि᳓र् गृह᳓पतिर् यु᳓वा
हव्यवा᳓ड् जुहु᳓वासियः

07 कविमग्निमुप स्तुहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कवि᳓म् अग्नि᳓म् उ᳓प स्तुहि
सत्य᳓धर्माणम् अध्वरे᳓
देव᳓म् अमीवचा᳓तनम्

08 यस्त्वामग्ने हविष्पतिर्दूतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा᳓म् अग्ने हवि᳓ष्पतिर्
दूतं᳓ देव सपर्य᳓ति
त᳓स्य स्म प्राविता᳓ भव

09 यो अग्निम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अग्निं᳓ देव᳓वीतये
हवि᳓ष्माँ आवि᳓वासति
त᳓स्मै पवाक+ मॄळय+

10 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नः पवाक+ दीदिवो
अ᳓ग्ने देवाँ᳓ इहा᳓ वह
उ᳓प यज्ञं᳓ हवि᳓श् च नः

11 स न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ न स्त᳓वान आ᳓ भर
गायत्रे᳓ण न᳓वीयसा
रयिं᳓ वीर᳓वतीम् इ᳓षम्

12 अग्ने शुक्रेण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने शुक्रे᳓ण शोचि᳓षा
वि᳓श्वाभिर् देव᳓हूतिभिः
इमं᳓ स्तो᳓मं जुषस्व नः