०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्द्रं विश्वा’ इत्यष्टर्चस्य सूक्तस्य मधुच्छन्दसः पुत्रो जेतृनामक ऋषिः । तथा चानुक्रान्तम्– ‘इन्द्रमष्टौ जेता माधुच्छन्दसः’ इति । छन्दस्त्वानुष्टुभमिति पूर्वसूक्तोक्तम् । इन्द्रो देवतानुवर्तते । विनियोगस्तु- महाव्रते निष्केवल्ये कृत्स्नसूक्तं शंसनीयम् । “ऊरू’ इति खण्डे शौनकेन सूत्रितम्-‘इन्द्रं विश्वा अवीवृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वोत्तरेणार्धर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति पादैः पादाननुष्टुप्कार प्रागुत्तमायाः’ (ऐ. आ. ५. ३. १ ) इति । ब्राह्मणं च प्रथमारण्यके पठ्यते ‘प्र वो महे’ इति खण्डे–’ इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गाः ’ ( ऐ. आ. १. ५. २ ) इति । तथा पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्ये शस्त्रे ‘इन्द्रं विश्वा अवीवृधन्’ इत्यनुरूपस्तृचः । स्तोमे वर्धमाने’ इति खण्डे सूत्रितम्-’उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्’ (आश्व. श्रौ. ७. १२) इति ॥

Jamison Brereton

11
Indra
Jetar Mādhuchandasa
8 verses: anuṣṭubh
Attributed to a descendant of Madhuchandas, the poet of I.1–10, this relatively simple hymn has little distinctive about it. Several famous deeds of Indra are men tioned (Vala verse 5, Śuṣṇa verse 7), and our praises and Indra’s countergifts are celebrated. These general themes are similar to those found in the Indra hymns of the ancestral Madhuchandas.
The poet is fond of etymological figures: “best charioteer of charioteers” (1c), “the conqueror who is not to be conquered” (2d), “with your tricks…the tricky…” (7a), and the probably etymologically unrelated but phonologically similar máṃhate maghám “grants the bounty” (3d).

Jamison Brereton Notes

Indra

01 इन्द्रं विश्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥

02 सख्ये त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥

03 पूर्विरिन्द्रस्य रातयो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ ।
यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥

04 पुरां भिन्दुर्युवा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रां भि॒न्दुर्(=भेत्ता) युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥

05 त्वं वलस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।
त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥

06 तवाहं शूर - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥

07 मायाभिरिन्द्र मायिनम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥

08 इन्द्रमीशानमोजसाभि स्तोमा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥