००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तत्र ‘अग्निमीळे’ इति सूक्तं प्रातरनुवाके आग्नेये क्रतौ विनियुक्तम् । स विनियोग आश्वलायनेन चतुर्थाध्यायस्य त्रयोदशे खण्डे सूत्रितः-’अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम्’ इति । तत्र हीनपादग्रहणात् सूक्तनिश्चयः । सूक्तं सूक्तादौ हीने पादे’ (आश्व. श्रौ.१. १ ) इति परिभाषितत्वात्। तस्मिन्सूक्ते प्रथमाया ऋचो द्वितीयस्यां पवमानेष्टौ स्विष्टकृतो याज्यात्वेन विनियोगः । स च द्वितीयाध्यायस्य प्रथमखण्डे सूत्रितः- साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये ’ इति । तत्र कृत्स्नपदग्रहणात् ऋगित्यवगम्यते । ऋचं पादग्रहणे’ ( आश्व. श्रौ १. १ ) इति परिभाषितत्वात् । तथा ‘संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्’ (आश्व. श्रौ. २.१) इति परिभाषितत्वात् स्विष्टकृत्संबन्धनिश्चयः। तत्रापि द्वितीयमन्त्रत्वेनोदाहृतत्वात् याज्यात्वम् । यद्यपि साह्वानित्यनया पुरोनुवाक्यचैव देवताया अनुस्मरणरूपसंस्कारः सिद्धस्तथापि याज्यानुवाक्ययोः समुच्चयो द्वादशेऽध्याये चतुर्थपादे मीमांसितः

पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता।

विकल्प्यान्यतरेणैव देवतायाः प्रकाशनात् ॥

पुरोनुवाक्यासमाख्यानाद्वचनाच्च समुच्चयः । देवताप्रकाशनकार्यस्यैकत्वात् । युग्मयोर्यथा विकल्पस्तथैवैकयुग्मगतयोरिति चेत्, मैवम् । पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः । किंच ’ पुरोनुवाक्यामनूच्य याज्यया जुहोति’ इति प्रत्यक्षवचनेन देवतोपलक्षणहविष्र्पदानकार्ये भेदोक्तिपुरःसरं साहित्यं विधीयते । तस्मात् समुच्चय इति ॥

एतच्चाग्निमित्यादिसूक्तं नवर्चम् ‘अग्निं नव मधुच्छन्दा वैश्वामित्रः’ इत्यनुक्रमणिकायामुक्तत्वात् । विश्वामित्रपुत्रो मधुच्छन्दोनामकस्तस्य सूक्तस्य द्रष्टृत्वात् तदीय ऋषिः। ‘ऋष गतौ ’ इति धातुः। सर्वधातुभ्य इन्’ ( उ. सू. ४. ५५७ ) ‘इगुपधात्कित् ’ ( उ. स. ४. ५५९ )। वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते– अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्’ (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –

युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।

लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥

इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—

अविदित्वा ऋषिं छन्दो दैवतं योगमेव च।

योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥

ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।।

अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥

इति ॥ वेदनविधिश्च स्मर्यते–

स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च ।

मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥

इति ॥ अग्निमित्यादिसूक्तस्य छन्दोऽनुक्रमणिकायां यद्यप्यत्र नोक्तं तथापि परिभाषायामेवमुक्तम् । ‘आदौ गायत्रं प्राग्घिरण्यस्तूपात् ’ ( अनु. १२. १४ ) इति । हिरण्यस्तूपं ऋषिर्येषां मन्त्राणां वक्ष्यते ततः प्राचीनेषु मन्त्रेषु सामान्येन गायत्रं छन्द इत्यर्थः । पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यते । तच्चारण्यकाण्डे समाम्नायते-’छादयन्ति ह वा एनं छन्दांसि पापकर्मणः’ ( ऐ. आ. २.५) इति । अथवा चीयमानाग्निसंतापस्याच्छादकत्वाच्छन्दः। तच्च तैत्तिरीया आमनन्ति -: प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वाऽतिष्ठत्तं देवा बिभ्यतो नोपायन्ते छन्दोभिरात्मानं छादयित्वोपायन्तच्छन्दसां छन्दस्त्वम् (तै. सं. ५. ६. ६. १) इति । यद्वा अपमृत्युं वारयितुमाच्छादयतीति छन्दः । तदपि छान्दोग्योपनिषद्याम्नातं- देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्या प्राविशंस्ते छन्दोभिरात्मानमच्छादयन्यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्’ ( छां. उ. १. ४. २ ) इति । तथा द्योतनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्नायते– ‘दिवा वै नोऽभूदिति तद्देवानां देवत्वम्’ इति । अतो दीव्यतीति देवः । मन्त्रेण द्योतते इत्यर्थः । अस्मिन् सूक्ते स्तूयमानत्वादग्निर्देवः । तथा चानुक्रमणिकायामुक्तं- मण्डलादिष्वाग्नेयमैन्द्रात्’ (अनु. १२. १२) इति । तस्य सूक्तस्य प्रथमामृचं भगवान् वेदपुरुष आह–

Jamison Brereton

1
Agni
Madhuchandas Vaiśvāmitra
9 verses: gāyatrī
As Oldenberg (1897) has noted, the first verse of this hymn was apparently the first verse of the R̥gveda already at the time of the composition of X.20–26, a collection that also begins agním īḷe. The two hymns that follow, I.2 and I.3, together invoke the principal deities of the three soma-pressings in a day-long soma rite. This hymn forms an appropriate opening for them, since the sacrifice is instituted first by the placement of fire, although the sacrificial fire here is not just the fire of the soma rite, since in verse 7 the poet speaks of revering the fire every day.

Here, as in other hymns to Agni, the poets praise him as the deified Fire of the sacrifice, who moves between the divine and human realms. Agni is a god, and yet he is also the visible fire, accessible to humans. As both god and element, Agni is “placed to the fore” (vs. 1) because the principal fire of the sacrifice is placed in the east of the sacrificial area and because the god Agni leads the appearances of the other gods of the rite. He is a divine priest, who carries the offerings and praises of the human priests to the gods and who brings the gifts of the gods to mortals. Saussure describes this hymn as a “versified paradigm of Agni,” since it begins by mentioning the god’s name in various cases as the first word in the first pāda of the first five verses: accusative, nominative, instrumen tal, dative, and again nominative (Elizarenkova 1995: 153). Displaying one of the verbal tricks R̥gvedic poets delight in, this pattern is broken by modification at the beginning of verse 6, which opens yád aṅgá, the latter word being a particle that is also a scrambling of the god’s name. The same verse ends with an epithet of Agni in the vocative, aṅgiraḥ, likewise a phonological scrambling of his name. The vocative agne is also found in three of the last four verses (vs. 8 is the exception). This structure not only displays the artfulness of the poet, but perhaps also suggests the various forms of the sacrificial Fire that are analogous to the many grammatical forms of the word “fire.”

01 अग्निमीळे पुरोहितम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥

02 अग्निः पूर्वेभिऋड़्षिभिरीड्यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
स दे॒वाँ एह व॑क्षति ॥

03 अग्निना रयिमश्नवत्पोषमेव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसं॑ वी॒रव॑त्तमम् ॥

04 अग्ने यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ ।
स इद्दे॒वेषु॑ गच्छति ॥

05 अग्निर्होता कविक्रतुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
दे॒वो दे॒वेभि॒रा ग॑मत् ॥

06 यदङ्ग दाशुषे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
तवेत्तत्स॒त्यम॑ङ्गिरः ॥

07 उप त्वाग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ त्वा ऽग्ने दि॒वे-दि॑वे॒
दोषा॑वस्तर्+++(=रात्रावह्नि)+++ धि॒या व॒यम् ।
नमो॒ भर॑न्त॒ एम॑सि

08 राजन्तमध्वराणां गोपामृतस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
वर्ध॑मानं॒ स्वे दमे॑ ॥

09 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा नः स्व॒स्तये॑ ॥