आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन।म॒हे रणा॑य॒ चक्ष॑से॥ १०.००९.०१
यो व॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑।उ॒श॒तीरि॑व मा॒तर॑॥ १०.००९.०२
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ।आपो॑ ज॒नय॑था च नः॥ १०.००९.०३
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑।शं योर॒भि स्र॑वन्तु नः॥ १०.००९.०४
ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम्।अ॒पो या॑चामि भेष॒जम्॥ १०.००९.०५
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा।अ॒ग्निं च॑ वि॒श्वश॑म्भुवम्॥ १०.००९.०६
आप॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒ मम॑।ज्योक्च॒ सूर्यं॑ दृ॒शे॥ १०.००९.०७
इ॒दमा॑प॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑।यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम्॥ १०.००९.०८
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि। पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा॥ १०.००९.०९