आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम्।अग॑न्म॒ बिभ्र॑तो॒ नम॑॥ १०.०६०.०१

अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ॑म्।भ॒जेर॑थस्य॒ सत्प॑तिम्॥ १०.०६०.०२

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान्।उ॒ताप॑वीरवान्यु॒धा॥ १०.०६०.०३

यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते।दि॒वी॑व॒ पञ्च॑ कृ॒ष्टय॑॥ १०.०६०.०४

इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय।दि॒वी॑व॒ सूर्यं॑ दृ॒शे॥ १०.०६०.०५

अ॒गस्त्य॑स्य॒ नद्भ्य॒ सप्ती॑ युनक्षि॒ रोहि॑ता। प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धस॑॥ १०.०६०.०६

अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत्।इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब॑न्ध॒वेहि॒ निरि॑हि॥ १०.०६०.०७

यथा॑ यु॒गं व॑र॒त्रया॒ नह्य॑न्ति ध॒रुणा॑य॒ कम्। ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये॥ १०.०६०.०८

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न्। ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये॥ १०.०६०.०९

य॒माद॒हं वै॑वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम्।जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये॥ १०.०६०.१०

न्यग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्य॑।नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रप॑॥ १०.०६०.११

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः।अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः॥ १०.०६०.१२