तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम्। प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र॥ १०.०५४.०१
यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रुवा॒णो जने॑षु। मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से॥ १०.०५४.०२
क उ॒ नु ते॑ महि॒मन॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः। यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्वः स्वाया॑॥ १०.०५४.०३
च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ सन्ति। त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभि॒ कर्मा॑णि मघवञ्च॒कर्थ॑॥ १०.०५४.०४
त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि। काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता॥ १०.०५४.०५
यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि। अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि॥ १०.०५४.०६