भ॒द्रं नो॒ अपि॑ वातय॒ मन॑॥ १०.०२०.०१
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम्। यस्य॒ धर्म॒न्स्व१रेनी॑ सप॒र्यन्ति॑ मा॒तुरूध॑॥ १०.०२०.०२
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति।भ्राज॑ते॒ श्रेणि॑दन्॥ १०.०२०.०३
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न्।क॒विर॒भ्रं दीद्या॑नः॥ १०.०२०.०४
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे।मि॒न्वन्सद्म॑ पु॒र ए॑ति॥ १०.०२०.०५
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति।अ॒ग्निं दे॒वा वाशी॑मन्तम्॥ १०.०२०.०६
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य।अद्रे॑ सू॒नुमा॒युमा॑हुः॥ १०.०२०.०७
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्यु॑।अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः॥ १०.०२०.०८
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान्। हिर॑ण्यरूपं॒ जनि॑ता जजान॥ १०.०२०.०९
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषा॑। गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑॥ १०.०२०.१०
२१ ऐन्द्रो विमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा। अग्निः। आस्तारपङ्क्तिः आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे। य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे॥ १०.०२१.०१
त्वामु॒ ते स्वा॒भुव॑ शु॒म्भन्त्यश्व॑राधसः। वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे॥ १०.०२१.०२
त्वे ध॒र्माण॑ आसते जु॒हूभि॑ सिञ्च॒तीरि॑व। कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे॥ १०.०२१.०३
यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य। तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे॥ १०.०२१.०४
अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑। भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे॥ १०.०२१.०५
त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे। त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे॥ १०.०२१.०६
त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे। घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे॥ १०.०२१.०७
अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत्। अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे॥ १०.०२१.०८