आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः।पि॒तरं॑ च प्र॒यन्स्व॑॥ १०.१८९.०१ अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती।व्य॑ख्यन्महि॒षो दिव॑म्॥ १०.१८९.०२ त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते।प्रति॒ वस्तो॒रह॒ द्युभि॑॥ १०.१८९.०३