प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म्।इ॒दं नो॑ ब॒र्हिरा॒सदे॑॥ १०.१८८.०१ अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुष॑।म॒हीमि॑यर्मि सुष्टु॒तिम्॥ १०.१८८.०२ या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः।ताभि॑र्नो य॒ज्ञमि॑न्वतु॥ १०.१८८.०३