प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्।स न॑ पर्ष॒दति॒ द्विष॑॥ १०.१८७.०१

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते।स न॑ पर्ष॒दति॒ द्विष॑॥ १०.१८७.०२

यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑।स न॑ पर्ष॒दति॒ द्विष॑॥ १०.१८७.०३

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति।स न॑ पर्ष॒दति॒ द्विष॑॥ १०.१८७.०४

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत।स न॑ पर्ष॒दति॒ द्विष॑॥ १०.१८७.०५