महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः।दु॒रा॒धर्षं॒ वरु॑णस्य॥ १०.१८५.०१

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑।ईशे॑ रि॒पुर॒घशं॑सः॥ १०.१८५.०२

यस्मै॑ पु॒त्रासो॒ अदि॑ते॒ प्र जी॒वसे॒ मर्त्या॑य।ज्योति॒र्यच्छ॒न्त्यज॑स्रम्॥ १०.१८५.०३