अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम्। इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम॥ १०.१८३.०१

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम्। उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे॥ १०.१८३.०२

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः। अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान्॥ १०.१८३.०३