प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑। क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म्॥ १०.१७६.०१
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम्।ह॒व्या नो॑ वक्षदानु॒षक्॥ १०.१७६.०२
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते।रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑॥ १०.१७६.०३
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः।सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः॥ १०.१७६.०४