प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा।धू॒र्षु यु॑ज्यध्वं सुनु॒त॥ १०.१७५.०१
ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम्।उ॒स्राः क॑र्तन भेष॒जम्॥ १०.१७५.०२
ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः।वृष्णे॒ दध॑तो॒ वृष्ण्य॑म्॥ १०.१७५.०३
ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा।यज॑मानाय सुन्व॒ते॥ १०.१७५.०४