त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्राव॑ सु॒ताव॑तः।अशृ॑णोः सो॒मिनो॒ हव॑म्॥ १०.१७१.०१

त्वं म॒खस्य॒ दोध॑त॒ शिरोऽव॑ त्व॒चो भ॑रः।अग॑च्छः सो॒मिनो॑ गृ॒हम्॥ १०.१७१.०२

त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम्। मुहु॑ श्रथ्ना मन॒स्यवे॑॥ १०.१७१.०३

त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि।दे॒वानां॑ चित्ति॒रो वश॑म्॥ १०.१७१.०४