सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात्।अ॒ग्निर्न॒ पार्थि॑वेभ्यः॥ १०.१५८.०१

जोषा॑ सवित॒र्यस्य॑ ते॒ हर॑ श॒तं स॒वाँ अर्ह॑ति।पा॒हि नो॑ दि॒द्युत॒ पत॑न्त्याः॥ १०.१५८.०२

चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः।चक्षु॑र्धा॒ता द॑धातु नः॥ १०.१५८.०३

चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्य॑।सं चे॒दं वि च॑ पश्येम॥ १०.१५८.०४

सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य।वि प॑श्येम नृ॒चक्ष॑सः॥ १०.१५८.०५