अ॒ग्निं हि॑न्वन्तु नो॒ धिय॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑।तेन॑ जेष्म॒ धनं॑धनम्॥ १०.१५६.०१
यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या।तां नो॑ हिन्व म॒घत्त॑ये॥ १०.१५६.०२
आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म्।अ॒ङ्धि खं व॒र्तया॑ प॒णिम्॥ १०.१५६.०३
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि।दध॒ज्ज्योति॒र्जने॑भ्यः॥ १०.१५६.०४
अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठ॒ श्रेष्ठ॑ उपस्थ॒सत्।बोधा॑ स्तो॒त्रे वयो॒ दध॑त्॥ १०.१५६.०५