ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते।भे॒जा॒नास॑ सु॒वीर्य॑म्॥ १०.१५३.०१
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः।त्वं वृ॑ष॒न्वृषेद॑सि॥ १०.१५३.०२
त्वमि॑न्द्रासि वृत्र॒हा व्यन्तरि॑क्षमतिरः।उद्द्याम॑स्तभ्ना॒ ओज॑सा॥ १०.१५३.०३
त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः।वज्रं॒ शिशा॑न॒ ओज॑सा॥ १०.१५३.०४
त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा।स विश्वा॒ भुव॒ आभ॑वः॥ १०.१५३.०५