शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः। न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न॥ १०.१५२.०१

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी।वृषेन्द्र॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः॥ १०.१५२.०२

वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज।वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः॥ १०.१५२.०३

वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः।यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑॥ १०.१५२.०४

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम्।वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम्॥ १०.१५२.०५