अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते।दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑॥ १०.१४४.०१
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते। अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म्॥ १०.१४४.०२
घृषु॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः। अव॑ दीधेदही॒शुव॑॥ १०.१४४.०३
यं सु॑प॒र्णः प॑रा॒वत॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत्। श॒तच॑क्रं॒ यो॒ऽह्यो॑ वर्त॒निः॥ १०.१४४.०४
यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः।
ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑॥ १०.१४४.०५
ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑। क्रत्वा॒ वयो॒ वि ता॒र्यायु॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः॥ १०.१४४.०६