रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्यक्षभि॑।विश्वा॒ अधि॒ श्रियो॑ऽधित॥ १०.१२७.०१
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्युद्वत॑।ज्योति॑षा बाधते॒ तम॑॥ १०.१२७.०२
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती।अपेदु॑ हासते॒ तम॑॥ १०.१२७.०३
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि।वृ॒क्षे न व॑स॒तिं वय॑॥ १०.१२७.०४
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिण॑।नि श्ये॒नास॑श्चिद॒र्थिन॑॥ १०.१२७.०५
या॒वया॑ वृ॒क्यं वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये।अथा॑ नः सु॒तरा॑ भव॥ १०.१२७.०६
उप॑ मा॒ पेपि॑श॒त्तम॑ कृ॒ष्णं व्य॑क्तमस्थित।उष॑ ऋ॒णेव॑ यातय॥ १०.१२७.०७
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः।रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑॥ १०.१२७.०८