अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह॑म्।इन्दो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह॑म्॥ ९.०९८.०१
परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत।इन्दु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः॥ ९.०९८.०२
परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः।धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः॥ ९.०९८.०३
स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑।इन्दो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि॥ ९.०९८.०४
व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्व॑ पुरु॒स्पृह॑।नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो॥ ९.०९८.०५
द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतम्।प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ प्रस्ना॒पय॑न्त्यू॒र्मिण॑म्॥ ९.०९८.०६
परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण।यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति॥ ९.०९८.०७
अ॒स्य वो॒ ह्यव॑सा॒ पान्तो॑ दक्ष॒साध॑नम्।यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१र्ण ह॑र्य॒तः॥ ९.०९८.०८
३
स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी।दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑॥ ९.०९८.०९
इन्द्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे।नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑॥ ९.०९८.१०
ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमा॑ प॒वित्रे॑ अक्षरन्।अ॒प॒प्रोथ॑न्तः सनु॒तर्हु॑र॒श्चित॑ प्रा॒तस्ताँ अप्र॑चेतसः॥ ९.०९८.११
तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रय॑।अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम्॥ ९.०९८.१२