कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑न॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः। नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभि॑॥ ९.०९५.०१

हरि॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म्। दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑॥ ९.०९५.०२

अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणा॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑। न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म्॥ ९.०९५.०३

तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम्। तं वा॑वशा॒नं म॒तय॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे॥ ९.०९५.०४

इष्य॒न्वाच॑मुपव॒क्तेव॒ होतु॑ पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम्। इन्द्र॑श्च॒ यत्क्षय॑थ॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम॥ ९.०९५.०५