हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑ क॒लशे॒ सोमो॑ अज्यते। उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रिय॑॥ ९.०७२.०१
सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः। यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नर॒ सनी॑ळाभिर्द॒शभि॒ काम्यं॒ मधु॑॥ ९.०७२.०२
२
अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म्। अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभि॒ स्वसृ॑भिः क्षेति जा॒मिभि॑॥ ९.०७२.०३
नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑रृ॒त्विय॑। पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑न॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते॥ ९.०७२.०४
नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते। आप्रा॒ क्रतू॒न्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒रास॑द॒द्धरि॑॥ ९.०७२.०५
अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिण॑। समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुव॑॥ ९.०७२.०६
नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः। इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः॥ ९.०७२.०७
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रज॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो। मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि॥ ९.०७२.०८
आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत्। उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि॥ ९.०७२.०९