त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे।पव॑स्व मंह॒यद्र॑यिः॥ ९.०६७.०१

त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः।इन्द्रा॑य सू॒रिरन्ध॑सा॥ ९.०६७.०२

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत्।द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम्॥ ९.०६७.०३

इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑।हरि॒र्वाज॑मचिक्रदत्॥ ९.०६७.०४

इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा।वि वाजा॑न्सोम॒ गोम॑तः॥ ९.०६७.०५

आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म्।भरा॑ सोम सह॒स्रिण॑म्॥ ९.०६७.०६

पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑।इन्द्रं॒ यामे॑भिराशत॥ ९.०६७.०७

क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः।आ॒युः प॑वत आ॒यवे॑॥ ९.०६७.०८

हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ पव॑मानं मधु॒श्चुत॑म्।अ॒भि गि॒रा सम॑स्वरन्॥ ९.०६७.०९

अ॒वि॒ता नो॑ अ॒जाश्व॑ पू॒षा याम॑नियामनि।आ भ॑क्षत्क॒न्या॑सु नः॥ ९.०६७.१०

अ॒यं सोम॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑।आ भ॑क्षत्क॒न्या॑सु नः॥ ९.०६७.११

अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑।आ भ॑क्षत्क॒न्या॑सु नः॥ ९.०६७.१२

वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या।दे॒वेषु॑ रत्न॒धा अ॑सि॥ ९.०६७.१३

आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते।अ॒भि द्रोणा॒ कनि॑क्रदत्॥ ९.०६७.१४

परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः।श्ये॒नो न त॒क्तो अ॑र्षति॥ ९.०६७.१५

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः॥ ९.०६७.१६

असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव॥ ९.०६७.१७

ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत॥ ९.०६७.१८

ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि।दध॑त्स्तो॒त्रे सु॒वीर्य॑म्॥ ९.०६७.१९

ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते।र॒क्षो॒हा वार॑म॒व्यय॑म्॥ ९.०६७.२०

यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह।पव॑मान॒ वि तज्ज॑हि॥ ९.०६७.२१

पव॑मान॒ सो अ॒द्य न॑ प॒वित्रे॑ण॒ विच॑र्षणिः।यः पो॒ता स पु॑नातु नः॥ ९.०६७.२२

यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा।ब्रह्म॒ तेन॑ पुनीहि नः॥ ९.०६७.२३

यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः।ब्र॒ह्म॒स॒वैः पु॑नीहि नः॥ ९.०६७.२४

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च।मां पु॑नीहि वि॒श्वत॑॥ ९.०६७.२५

त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः।अग्ने॒ दक्षै॑ पुनीहि नः॥ ९.०६७.२६

पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या।विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑॥ ९.०६७.२७

प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभि॑।दे॒वेभ्य॑ उत्त॒मं ह॒विः॥ ९.०६७.२८

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म्।अग॑न्म॒ बिभ्र॑तो॒ नम॑॥ ९.०६७.२९

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम।आ॒खुं चि॑दे॒व दे॑व सोम॥ ९.०६७.३०

यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒ सम्भृ॑तं॒ रस॑म्।सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना॥ ९.०६७.३१

पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒ सम्भृ॑तं॒ रस॑म्।तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम्॥ ९.०६७.३२