वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः।वृषा॒ धर्मा॑णि दधिषे॥ ९.०६४.०१

वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मद॑।स॒त्यं वृ॑ष॒न्वृषेद॑सि॥ ९.०६४.०२

अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः।वि नो॑ रा॒ये दुरो॑ वृधि॥ ९.०६४.०३

असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या।शु॒क्रासो॑ वीर॒याशव॑॥ ९.०६४.०४

शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः।पव॑न्ते॒ वारे॑ अ॒व्यये॑॥ ९.०६४.०५

ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा।पव॑न्ता॒मान्तरि॑क्ष्या॥ ९.०६४.०६

पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत।सूर्य॑स्येव॒ न र॒श्मय॑॥ ९.०६४.०७

के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि।स॒मु॒द्रः सो॑म पिन्वसे॥ ९.०६४.०८

हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि।अक्रा॑न्दे॒वो न सूर्य॑॥ ९.०६४.०९

इन्दु॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती।सृ॒जदश्वं॑ र॒थीरि॑व॥ ९.०६४.१०

ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत्।सीद॑न्नृ॒तस्य॒ योनि॒मा॥ ९.०६४.११

स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः।इन्द॒विन्द्रा॑य पी॒तये॑॥ ९.०६४.१२

इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभि॑।इन्दो॑ रु॒चाभि गा इ॑हि॥ ९.०६४.१३

पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः।हरे॑ सृजा॒न आ॒शिर॑म्॥ ९.०६४.१४

पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम्।द्यु॒ता॒नो वा॒जिभि॑र्य॒तः॥ ९.०६४.१५

प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शव॑।धि॒या जू॒ता अ॑सृक्षत॥ ९.०६४.१६

म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः।अग्म॑न्नृ॒तस्य॒ योनि॒मा॥ ९.०६४.१७

परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा।पा॒हि न॒ शर्म॑ वी॒रव॑त्॥ ९.०६४.१८

मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः।प्र यत्स॑मु॒द्र आहि॑तः॥ ९.०६४.१९

आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति।जहा॒त्यप्र॑चेतसः॥ ९.०६४.२०

अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः।मज्ज॒न्त्यवि॑चेतसः॥ ९.०६४.२१

इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः।ऋ॒तस्य॒ योनि॑मा॒सद॑म्॥ ९.०६४.२२

तं त्वा॒ विप्रा॑ वचो॒विद॒ परि॑ ष्कृण्वन्ति वे॒धस॑।सं त्वा॑ मृजन्त्या॒यव॑॥ ९.०६४.२३

रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे।पव॑मानस्य म॒रुत॑॥ ९.०६४.२४

त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि।इन्दो॑ स॒हस्र॑भर्णसम्॥ ९.०६४.२५

उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म्।पु॒ना॒न इ॑न्द॒वा भ॑र॥ ९.०६४.२६

पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम्।प्रि॒यः स॑मु॒द्रमा वि॑श॥ ९.०६४.२७

दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा।सोमा॑ शु॒क्रा गवा॑शिरः॥ ९.०६४.२८

हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत्।सीद॑न्तो व॒नुषो॑ यथा॥ ९.०६४.२९

ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः।पव॑स्व॒ सूर्यो॑ दृ॒शे॥ ९.०६४.३०