म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः।अव्यो॒ वारे॑ष्वस्म॒युः॥ ९.००६.०१
अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर।अ॒भि वा॒जिनो॒ अर्व॑तः॥ ९.००६.०२
अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ।अ॒भि वाज॑मु॒त श्रव॑॥ ९.००६.०३
अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन्।पु॒ना॒ना इन्द्र॑माशत॥ ९.००६.०४
यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑।वने॒ क्रीळ॑न्त॒मत्य॑विम्॥ ९.००६.०५
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये।सु॒तं भरा॑य॒ सं सृ॑ज॥ ९.००६.०६
दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः।पयो॒ यद॑स्य पी॒पय॑त्॥ ९.००६.०७
आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः।प्र॒त्नं नि पा॑ति॒ काव्य॑म्॥ ९.००६.०८
ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑।गुहा॑ चिद्दधिषे॒ गिर॑॥ ९.००६.०९