परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति।वि॒घ्नन्रक्षां॑सि देव॒युः॥ ९.०५६.०१

यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युव॑।इन्द्र॑स्य स॒ख्यमा॑वि॒शन्॥ ९.०५६.०२

अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत।मृ॒ज्यसे॑ सोम सा॒तये॑॥ ९.०५६.०३

त्वमिन्द्रा॑य॒ विष्ण॑वे स्वा॒दुरि॑न्दो॒ परि॑ स्रव।नॄन्स्तो॒तॄन्पा॒ह्यंह॑सः॥ ९.०५६.०४