उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः।नु॒दस्व॒ याः प॑रि॒स्पृध॑॥ ९.०५३.०१
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते।स्तवा॒ अबि॑भ्युषा हृ॒दा॥ ९.०५३.०२
अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ड्या॑।रु॒ज यस्त्वा॑ पृत॒न्यति॑॥ ९.०५३.०३
तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म्।इन्दु॒मिन्द्रा॑य मत्स॒रम्॥ ९.०५३.०४