अ॒या सोम॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत।म॒न्दा॒न उद्वृ॑षायते॥ ९.०४७.०१
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत॑न्ते दस्यु॒तर्ह॑णा।ऋ॒णा च॑ धृ॒ष्णुश्च॑यते॥ ९.०४७.०२
आत्सोम॑ इन्द्रि॒यो रसो॒ वज्र॑ सहस्र॒सा भु॑वत्।उ॒क्थं यद॑स्य॒ जाय॑ते॥ ९.०४७.०३
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति।यदी॑ मर्मृ॒ज्यते॒ धिय॑॥ ९.०४७.०४
सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव।भरे॑षु जि॒ग्युषा॑मसि॥ ९.०४७.०५