असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒ कृत्व्या॑ इव।क्षर॑न्तः पर्वता॒वृध॑॥ ९.०४६.०१

परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती।वा॒युं सोमा॑ असृक्षत॥ ९.०४६.०२

ए॒ते सोमा॑स॒ इन्द॑व॒ प्रय॑स्वन्तश्च॒मू सु॒ताः।इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः॥ ९.०४६.०३

आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑।गोभि॑ श्रीणीत मत्स॒रम्॥ ९.०४६.०४

स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः।अ॒स्मभ्यं॑ सोम गातु॒वित्॥ ९.०४६.०५

ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिप॑।इन्द्रा॑य मत्स॒रं मद॑म्॥ ९.०४६.०६