यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः।तं गी॒र्भिर्वा॑सयामसि॥ ९.०४३.०१
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिर॑ शुम्भन्ति पू॒र्वथा॑।इन्दु॒मिन्द्रा॑य पी॒तये॑॥ ९.०४३.०२
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः।विप्र॑स्य॒ मेध्या॑तिथेः॥ ९.०४३.०३
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म्।इन्दो॑ स॒हस्र॑वर्चसम्॥ ९.०४३.०४ इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ।यदक्षा॒रति॑ देव॒युः॥ ९.०४३.०५
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे।सोम॒ रास्व॑ सु॒वीर्य॑म्॥ ९.०४३.०६